________________
मार्गणास्वसंख्यगुणवृद्धिहान्युत्कृष्टान्तर० ] वृद्धयधिकारेऽन्तरद्वारम्
(प्रे०) "पणमणवये" त्यादि, पञ्चमनोयोग-पञ्चवचोयोग-काययोगसामान्यौदारिककापयोग-स्त्रीवेद-नपुंसकवेदा-ऽपगतवेद-क्रोधादिचतुःकषायेषु, सामायिक छेदोपस्थापनसंयम-शुक्ललेश्यौ-पशमिकसम्यक्त्वेषु चेत्येवं समुदितासु त्रयोविंशतिमार्गणासु प्रत्येकं “णेयं मुहत्तंतो” त्ति प्रकृतत्वादायुर्वर्जसप्तमूलप्रकृत्यसंख्यगुणस्थितिबन्धवृद्धिहान्योरुत्कृष्टमन्तरमन्तमुहूर्त ज्ञेयम् ।
तत्र पञ्चमनोयोग-पञ्चवचोयोगा-उपगतवेद-कषायचतुष्को-पशमिकसम्यक्त्वमार्गणानां प्रत्येकमुत्कृष्टकायस्थितेरेवान्तमुहूर्तत्वात्प्रकृतान्तरं तदधिकं न सम्भवतीति कृत्वाऽन्तमुहूर्तमुक्तम् । एवमंत्र काययोगसामान्यो-दारिककाययोग-शुक्लेश्यामार्गणानां सामान्यतो दीर्घकायस्थितिकत्वेऽपि यैरेकेन्द्रियादिभवैस्तादृशदीर्घकायस्थितिः पूर्यते तासु प्रस्तुतासंख्येयगुणस्थितिबन्धवृद्धिहान्येव सकृद् द्विान भवतः, तदभावे कुतोऽन्तरमपि भवेत , अन्तरस्य तादृशहानिद्वयाद्यधीनत्वात् । एकेन्द्रियादिभ्योऽन्यजीवापेक्षया लभ्यमानं तु तदन्तमुहूर्तमेव भवेत् , तेषामन्तमुहूर्तादधिकं प्रस्तुतमार्गणायामेवानवस्थानात् ।
किमुक्तं भवति-काययोगसामान्यौ-दारिककाययोगयोर्दीर्घकायस्थितिप्रयोजका एकेन्द्रियभवा एव,न त्वन्ये,अन्यभवेषु प्रत्यन्तमुहूर्त योगानां परावर्तनात्,इत्थं हि देवमनुष्यभवसम्भव्यसंख्यगुणस्थितिबन्धवृद्धरन्तरं मनुष्यभवसम्भव्यसंख्यगुणस्थितिबन्धहानेरन्तरं च काययोसामान्यौदारिककाययोगमार्गगयोरुक्ताधिकं न प्राप्यते । शुक्लेश्यामार्गणाया उत्कृष्टकायस्थितिप्रयोजके देवभवेऽसंख्येयगुणस्थितिबन्धवृद्धेः सम्भवेऽपि सा देवभवप्रथमसमये सकृदेव सम्भवति । भवप्रथमसमये सकृदेव तद्भावे तु कुतोऽन्तरं भवेत् । स्थितिबन्धकानां मनुष्याणां तु योगानामिव तत्तल्लेश्यानामप्यान्तर्मुहूर्तिकत्वाच्छुक्ललेश्याऽप्यन्तर्मुहूर्तादधिककालं नैरन्तर्येण न प्रवर्तते, अतः प्रकृतवृद्धथन्तरमपि प्रोक्ताधिकं न प्राप्यते ।
'शेषासु स्त्रीवेद-नपुंसकवेद-सामायिकसंयम-छेदोपस्थापनसंयमरूपासु चतसृषु मार्गणासु तु केषामपि जीवानां मार्गणाविच्छेदादक तत्तन्मार्गणाचरमान्तमुहर्ते एवाऽसंख्यगुणहीनस्थितिवन्धानां सम्भवाद् , तथा तत्तन्मार्गणाप्रारम्भान्तमुहूर्ते एवाऽसंख्यगुणवृद्धस्थितिबन्धानां सम्भवान प्राप्यते ऽसंख्यगुणस्थितिबन्धवृद्धिहान्यन्तरमन्तमुहूर्तादधिकम् । तद्यथा-केनाऽपि स्त्रीवेदिजीवेनोपशमश्रेणी क्षपकश्रेणी वा समारब्धायां क्रमेणैव तस्याऽसंख्यगुणस्थितिबन्धहानयो भवन्ति, नान्यत्र । श्रेणिमारोहन् स यदि मृत्यु न प्राप्नोति तदाऽन्तमुहूर्तेऽतिक्रान्तेऽवेदीभवन् प्रकृतमार्गणातो बहिभवति । यदि च कालं करोति तदा त्वनुपदमेव देवत्वे पुवेदीभवन् प्रकृतमार्गणाया बहिनिर्याति; इत्थं चोभयथाऽपि मार्गणाप्रान्तान्तमुहर्ते एव तस्य नानाऽसंख्यगुणहीनस्थितिबन्धाः सम्भवन्ति, ततश्च न भवति सप्तानामसंख्यगुणस्थितिबन्धहान्यन्तरमन्तमुहूर्तादधिकम् । तच्चान्तरं प्रकृतमार्गणाभाव्यसंख्यगुणहीनस्थितिबन्धद्वयमध्यवयुत्कृष्टावस्थानकालप्रमाणमवसातव्यम् । इत्थमेव
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org