________________
५६८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मानणासु संख्यभागगुणवृद्धिहान्युत्कृष्टान्तर० शेषनपुंसकवेदादिमार्गणात्रयेऽप्युत्कृष्टान्तरं विशेयम् , भवक्षये भवक्षयाभावे वा स्त्रीवेदमार्गणावन्नपुंसकवेदादिमार्गणात्रयस्याऽपि नियमतो विच्छेदात् ।
असंख्यगुणस्थितिबन्धवृद्धयन्तरं तु प्रपतदुपशमकजीवापेक्षया भावनीयम् । तद्यथाकश्चित् स्त्रीवेदी जीव उपशमश्रेणि समारुयोपशान्तमोहगुणस्थानकं प्राप्तः, न च तदानीमसौ स्त्रीवेदमार्गणायाम् , तदानीं तस्य वेदोदयाभावात् । पश्चात्तु स उपशान्ताद्धाक्षयात्प्रपत्य यदा वेदोदयं प्राप्नोति, ततः प्रभृति स्त्रीवेदमार्गणायां वर्तते, ततस्तु प्रपतन निरन्तरवर्धमानसंक्लेशोऽसौ मुहूर्ताभ्यन्तरे एव ज्ञानावरणादीनां यथोत्तराऽसंख्यगुणवृद्धस्थितिबन्धान् करोति, एतच्च तदा भवति यद्यसौ मृत्यु नैति; यदि चासो मृत्युमेति तदा तु प्राग्वनियमतो मार्गणान्तरं प्रतिपद्यते, इत्थं तस्य क्रमेण प्रतिपतत उत्कृष्टावस्थानकालान्तरितयोरसंख्यगुणस्थितिबन्धवृद्धयोर्यदन्तरं तदेव स्त्रीवेदमार्गणायां मूलोक्तोत्कृष्टान्तरतया विशेयम् ।
न च यः कश्चिदुपशमश्रेणितः प्रपतन चरमासंख्येयगुणवृद्धस्थितिबन्धं कृत्वा स्त्रीवेदितयैव देशोनपूर्वकोटीकालं श्रेणे हिरेवापतारयति, भवप्रान्ते पुनरप्युपशमश्रेणिं समारुह्य प्राग्वदसंख्येयगुणवृद्ध स्थितिबन्धंच करोति तस्योक्ताविकमन्नरमपि प्राप्येतेति वाच्यम् । यतः क्रमशः प्रतिपाते कालकरणे वा तस्याऽसंख्यगुणवद्धस्थितिबन्धसम्भवः, तत्र कालकरणेन लभ्योऽसंख्यगुणवद्धस्थितिबन्धस्तु प्रकृतान्तरप्रयोजक एवं न भवति, प्रकृतमार्गणाबहिर्भावित्वात्तस्य । क्रमशः प्रपततोऽपि यो देशोनपूर्वकोटिकालमतिक्रम्य द्वितीयवारमसंख्यगुणवृद्धस्थितिबन्धोऽभिहितः, स यद्यपि स्त्रीवेदमार्गणायामेव,तथाऽपि नासौ पूर्वकोटिकालात् पूर्व निर्वर्तितादसंख्यगुणवृद्धस्थितिबन्धादारभ्य निरवच्छिन्नप्रवृत्तायां स्त्रीवेदमार्गणायामेव; किन्तु मध्ये विच्छिद्य पुनः प्रवृत्तायां रत्रीवेदमार्गणायामेव । यतो यः क्रमेण पतितः स उपशान्ताद्धां निर्वावि, स च नियमतो मध्येऽन्तमुहर्तमदेद्यासीत्, तथा च मध्येऽन्तमुहूतं स्त्रीवेदमार्गणाया विच्छेदान्नाद्यापि देशोनपूर्वकोटिकालान्तरितगतप्रतिपातप्रवृत्तैव निरवच्छिन्ना स्त्रीवेदमार्गणा, तदभावे कुत उक्ताधिकान्तरस्य सम्भवः, न कुतश्चिदिति । शेषनसकवेदादिमार्गणास्वपि प्रकृतवद्धथन्तरं सर्वथैव स्त्रीवेदमार्गणावद्भावनीयमिति ॥७६३।।
तदेवं भणितो यासु मार्गणासु सप्तानामसंख्यगुणस्थितिवन्धवृद्धिहान्युत्कृष्टान्तरस्योघापेक्षया विशेषस्तासु तथैव । अधुना यासु संख्येयभाग-संख्येयगुणस्थितिवन्धवृद्धिहान्युत्कृष्टान्तरविषय ओघापेक्षया विशेषस्तासु तं दर्शयन्नाह
आहारे कायठिई संखियभागगुणवड्ढिहाणीणं । सत्तण्डं कम्माणं उक्कोसं अंतरं णेयं ॥७६४॥ होइ असंखपरट्टा उक्कोसं तिरिय-काय-णपुमेसु । दुअणाणा-ऽयत-अणयण-भवियेयर-मिच्छ-अमणेसुं ॥७६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org