Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 640
________________ मार्गणास्वसंख्यगुणवृद्धिहान्युत्कृष्टान्तर० ] वृद्धयधिकारेऽन्तरद्वारम् (प्रे०) "पणमणवये" त्यादि, पञ्चमनोयोग-पञ्चवचोयोग-काययोगसामान्यौदारिककापयोग-स्त्रीवेद-नपुंसकवेदा-ऽपगतवेद-क्रोधादिचतुःकषायेषु, सामायिक छेदोपस्थापनसंयम-शुक्ललेश्यौ-पशमिकसम्यक्त्वेषु चेत्येवं समुदितासु त्रयोविंशतिमार्गणासु प्रत्येकं “णेयं मुहत्तंतो” त्ति प्रकृतत्वादायुर्वर्जसप्तमूलप्रकृत्यसंख्यगुणस्थितिबन्धवृद्धिहान्योरुत्कृष्टमन्तरमन्तमुहूर्त ज्ञेयम् । तत्र पञ्चमनोयोग-पञ्चवचोयोगा-उपगतवेद-कषायचतुष्को-पशमिकसम्यक्त्वमार्गणानां प्रत्येकमुत्कृष्टकायस्थितेरेवान्तमुहूर्तत्वात्प्रकृतान्तरं तदधिकं न सम्भवतीति कृत्वाऽन्तमुहूर्तमुक्तम् । एवमंत्र काययोगसामान्यो-दारिककाययोग-शुक्लेश्यामार्गणानां सामान्यतो दीर्घकायस्थितिकत्वेऽपि यैरेकेन्द्रियादिभवैस्तादृशदीर्घकायस्थितिः पूर्यते तासु प्रस्तुतासंख्येयगुणस्थितिबन्धवृद्धिहान्येव सकृद् द्विान भवतः, तदभावे कुतोऽन्तरमपि भवेत , अन्तरस्य तादृशहानिद्वयाद्यधीनत्वात् । एकेन्द्रियादिभ्योऽन्यजीवापेक्षया लभ्यमानं तु तदन्तमुहूर्तमेव भवेत् , तेषामन्तमुहूर्तादधिकं प्रस्तुतमार्गणायामेवानवस्थानात् । किमुक्तं भवति-काययोगसामान्यौ-दारिककाययोगयोर्दीर्घकायस्थितिप्रयोजका एकेन्द्रियभवा एव,न त्वन्ये,अन्यभवेषु प्रत्यन्तमुहूर्त योगानां परावर्तनात्,इत्थं हि देवमनुष्यभवसम्भव्यसंख्यगुणस्थितिबन्धवृद्धरन्तरं मनुष्यभवसम्भव्यसंख्यगुणस्थितिबन्धहानेरन्तरं च काययोसामान्यौदारिककाययोगमार्गगयोरुक्ताधिकं न प्राप्यते । शुक्लेश्यामार्गणाया उत्कृष्टकायस्थितिप्रयोजके देवभवेऽसंख्येयगुणस्थितिबन्धवृद्धेः सम्भवेऽपि सा देवभवप्रथमसमये सकृदेव सम्भवति । भवप्रथमसमये सकृदेव तद्भावे तु कुतोऽन्तरं भवेत् । स्थितिबन्धकानां मनुष्याणां तु योगानामिव तत्तल्लेश्यानामप्यान्तर्मुहूर्तिकत्वाच्छुक्ललेश्याऽप्यन्तर्मुहूर्तादधिककालं नैरन्तर्येण न प्रवर्तते, अतः प्रकृतवृद्धथन्तरमपि प्रोक्ताधिकं न प्राप्यते । 'शेषासु स्त्रीवेद-नपुंसकवेद-सामायिकसंयम-छेदोपस्थापनसंयमरूपासु चतसृषु मार्गणासु तु केषामपि जीवानां मार्गणाविच्छेदादक तत्तन्मार्गणाचरमान्तमुहर्ते एवाऽसंख्यगुणहीनस्थितिवन्धानां सम्भवाद् , तथा तत्तन्मार्गणाप्रारम्भान्तमुहूर्ते एवाऽसंख्यगुणवृद्धस्थितिबन्धानां सम्भवान प्राप्यते ऽसंख्यगुणस्थितिबन्धवृद्धिहान्यन्तरमन्तमुहूर्तादधिकम् । तद्यथा-केनाऽपि स्त्रीवेदिजीवेनोपशमश्रेणी क्षपकश्रेणी वा समारब्धायां क्रमेणैव तस्याऽसंख्यगुणस्थितिबन्धहानयो भवन्ति, नान्यत्र । श्रेणिमारोहन् स यदि मृत्यु न प्राप्नोति तदाऽन्तमुहूर्तेऽतिक्रान्तेऽवेदीभवन् प्रकृतमार्गणातो बहिभवति । यदि च कालं करोति तदा त्वनुपदमेव देवत्वे पुवेदीभवन् प्रकृतमार्गणाया बहिनिर्याति; इत्थं चोभयथाऽपि मार्गणाप्रान्तान्तमुहर्ते एव तस्य नानाऽसंख्यगुणहीनस्थितिबन्धाः सम्भवन्ति, ततश्च न भवति सप्तानामसंख्यगुणस्थितिबन्धहान्यन्तरमन्तमुहूर्तादधिकम् । तच्चान्तरं प्रकृतमार्गणाभाव्यसंख्यगुणहीनस्थितिबन्धद्वयमध्यवयुत्कृष्टावस्थानकालप्रमाणमवसातव्यम् । इत्थमेव For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762