Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
ओघादेशतो जघन्यस्थितिवृद्धयादिसत्पद० ] पदनिक्षेपाधिकारे सत्पदद्वारम्
[५२१ हानिलक्षणाया एकविधाया हानेरेव प्राप्तेर्यदजघन्यानुत्कृष्टहानिलक्षणं पदं तदेव सत् , नान्यत् । तस्य चौघतो मार्गणास्थानेषु च सर्व आयुर्वन्धकाः स्वामिनः, सर्वेषां वेद्यमानायुर्हान्या अबाधाहानेस्तत्प्राप्तेः । तथा च तदीयस्वामित्वप्ररूपणायां न काचिद्विशेषवक्तव्यता, अल्पबहुत्वस्य त्वसम्भव एव, जघन्यतोऽपि पदद्वय सद्भावे तत्सम्भवात् । अत ओघतोऽनुक्तं मार्गणास्थानेष्ववक्ष्यमाणमप्यायुषो हानिपदं चकारेण समुच्चितमवगन्तव्यम् ।। __यद्वा चकार उक्तसमुच्चय एव, आयुषो हानेः समयमात्रत्वेनोत्कृष्टहानिपदस्य जघन्यहानिपदस्य वाऽसम्भवेनानुक्तसमुच्चेयस्यैवाभावात् । किमुक्तं भवति-उत्कृष्ट-जघन्यलक्षणपदद्वये निक्षेपः प्रवृत्तः, न पुनरनुत्कृष्टाजघन्यलक्षणे पदेऽपि, उक्तपदद्वयं तु विजातीयहीनाधिकस्थितिवन्धद्वयसद्भावे एव सम्भवति, नान्यथा, उत्कृष्टजघन्यपदयोः परस्परं सापेक्षत्वात् , आयुषस्तु समयमात्रस्थितिबन्धहानिप्रयुक्तमेकमेव हानिपदं, ततश्चापेक्ष्यमाणस्य पदान्तरस्याभावादजघन्यानुत्कृष्टपदात्मकं सत् तत्प्रकृतोत्कृष्टादिपदनिक्षेपविषयभूतमेव न भवति । इत्थं च तस्योत्कृष्टजघन्यलक्षणपदद्वयानन्तर्गतत्वेन समुच्चेयस्याऽनुक्तस्याभावाच्चकारोऽपि तत्समुच्चायकतया न भवत्येवातोऽसावुक्त समुच्चये व्याख्येय इति ॥६९०।।
अथोत्कृष्टपदे मूलकर्मणां स्थितिवन्धवृद्धयादिसत्पदानि प्रतिपाद्य साम्प्रतं तान्येव जघन्यपदे दर्शयन्नाह
हस्सा वड्ढी हस्सा हाणी हस्सं तहा अवट्ठाणं ।
अस्थि उ सत्तण्हेवं सव्वासु मग्गणासु भवे ॥६९१॥ (प्रे०) "हस्सा वड्ढो” इत्यादि, ‘ह्रस्वा' -जघन्या, द्विसमयाद्यजघन्यवृद्धिभिन्ना समयलक्षणेत्यर्थः । अस्य चान्वयः "अस्थि उ सत्तण्ह" इति परेण, तत आयुर्वर्जानां सप्तानां जघन्यवद्धिपदं सदित्यर्थः । एवमुत्तरत्रापि योजना कार्या । तथैव 'ह्रस्वा'-जघन्या हानिः, “हस्सं तहा अवठ्ठाणं" ति तथा वृद्धि-हान्योरनन्तरं प्रवर्तमानावस्थितस्थितिबन्धलक्षणेष्ववस्थानेषु यद् 'हस्त्र'- जघन्यवृद्धयाधुत्तरप्रवृत्तत्वाजघन्यमवस्थानं तदपि सप्तप्रकृतीनां सदेव ।
इदमुक्तं भवति-ज्ञानावरणादेः कश्चिद्भयस्कारः समयमात्राधिकस्थितिबन्धलक्षणः, कश्चित्पुनर्टिसमयाधिकस्थितिबन्धलक्षणः, एवं कश्चित् त्रिसमयाधिकस्थितिबन्धलक्षणः,एवमुत्तात्रापि वाच्यम् ; इत्थमेव समय-द्विसमय-त्रिसमयादिहीनस्थितिबन्धलक्षणा अल्पतरबन्धा अपि जायन्ते । तत्र भूयस्कारबन्धाः स्थितिबन्धवृद्धयाऽल्पतरबन्धास्तु स्थितिबन्धहान्या च प्राप्यन्ते, तत्रोभयत्राऽपि ह्रस्वपदे समयमात्रा वृद्धिानिश्च लभ्यते, ततश्च पदद्वयमपि सद्भूते । अथ कुत्रचित्सूक्ष्मसम्परायसंयमादिलक्षणेषु मार्गणास्थानेषु समयमात्राधिकस्थितिबन्धलक्षणा वृद्धिर्न भवति, किन्त्वन्तमुहूर्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762