Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 321
________________ अतीन्द्रियार्थदर्शिपरीक्षा स्वभावव्यापककारणानुपलब्धयः सूच्यन्त इत्यतस्त्रिविधाया मूलप्रभेदरूपायाः सर्वज्ञाभावसिद्धिं प्रत्यसामर्थ्यप्रतिपादनात् तच्छाखाभूतानां यत्नमन्तरेणैव प्रतिपादितं भवतीति नास्यां पृथगसामर्थ्यप्रतिपादनाय यत्नः कार्यः, न हि मूले छिन्ने शाखानामवस्थितिर्भवेत्। परमार्थतस्तु स्वभावानुपलब्धिरेन सर्वासां मूलभूता, अर्थान्तरभेदाश्रयणात् तु त्रिविधा मूलत्वेनोक्ता ।। ३२७७-३२७८ ॥ स्यादेतत्-यदि सर्वज्ञोऽनुपलब्धिलक्षणप्राप्तः, तदा मा भूत्तदनुपलम्भविशेषसिद्धिः, [G.855] तत्कारणव्यापकयोस्तूपलब्धिलक्षणप्राप्तत्वात् किमिति तददृष्टिविशेषो न सिध्यति, तद्विरुद्धादीनां चोपलभ्यस्वभावत्वादुपलम्भः किमिति न सिध्येद् ? इत्याहकार्यकारणताव्याप्यव्यापकत्वविरोधिताः 1 दृश्यत्वे सति सिध्यन्ति यश्चात्मा सविशेषणः ॥ ३२७९ ॥ सर्वज्ञो न च दृश्यस्ते तेन नैता अदृष्टयः । तन्निराकरणे शक्ता निषेधाङ्गं न चापरम् ॥ ३२८० ॥ कार्यकारणभावो व्याप्यव्यापकत्वं च' विरोधता चेति द्वन्द्वः । प्रत्यक्षानुपलम्भसाधनो हि कार्यकारणभाव:, सर्वज्ञादेरदृश्यत्वान्न तेन सह कार्यकारणभावः सिध्यति । नापि व्याप्यव्यापकभावः; तस्याप्युलब्धिलक्षणप्राप्तस्यानुपलम्भपूर्वकत्वात् । तथा हि-यन्निवृत्तौ यन्नियमेन `निवर्त्तते स तेन व्याप्तो व्यपदिश्यते, निवृत्तेश्च नानुपलब्धिलक्षणप्राप्तानुपलम्भमन्तरेण सिद्धिर्भवति । विरोधितापि दृश्ययोरेव वस्तुनोः सिध्यति, नादृश्ययोः । तथा हि- सहानवस्थानलक्षणस्तावद्विरोधोऽविकलकारणस्य भवतोऽन्यभावेऽभावाद् दृश्यते । भावाभावौ च नानुपलभ्यस्वभावयोर्वस्तुनोर्निश्चेतुं शक्यौ । परस्परंपरिहारस्थितलक्षणोऽपि विरोधों यद्यद्व्यवच्छेद्यानान्तरीयको ? यस्य परिच्छेदस्तयोर्व्यवस्थाप्यते, यथा क्रमाक्रमयोः । परिच्छेदश्च नादृश्ये सम्भवति । ७२५ यद्येवम्, भावाभावांदीनां कथं विरोधसिद्धिः, न हि तत्रोभयोर्दृश्यत्वमस्ति ? नैष दोष: ; नहि भावाभावौ पृथक्परिच्छिद्य पश्चात्तयोर्व्यवच्छेदयव्यवच्छेदकभावाद् विरोधो व्यवस्थाप्यतें, किं तर्हि ? पृथक्परच्छिन्नयोरेव । तथा हि- एकस्मिन् धर्मिण्येककालं तयोविरोधो व्यवस्थाप्यते नतु धर्म्यन्तरे । न हि गोरभावे अश्वस्य भावविरोधः कश्चित् । नाप्येकत्र धर्मिणि भिन्नकालयोस्तयोर्विरोधः, नहि प्रागभूतस्य वा पश्चाद् भावाभावौ न सम्भवतः । एकस्मिंस्तु वस्तुनि तयोर्युगपदपरिच्छेदाद्विरोधः, न तु तत्रैव; परिच्छिद्य व्यवच्छेदात् । अपरिच्छिन्नस्य कथं व्यवच्छेद इति चेत् ? अत एव । यत एव न परिच्छिद्यते तत्र धर्मिणि तत एव तस्य व्यवच्छेदः सम्भवेत् । अन्यथा तत्र परिच्छिन्नधर्मस्य कथं व्यवच्छेदः शक्यते कर्तुम्! अयमेव हि तदभावव्यवच्छेदो य एव तत्परिच्छेदः, स एवान्याभावस्य तत्र परिच्छेदो य एवान्यव्यतिरिक्तस्य तस्य परिच्छेदः । तस्माद् यस्य धर्मिणोऽभावो व्यवच्छिद्यते, [G.856] भावश्च परिच्छद्यते, सोऽवश्यं दृश्योऽभ्युपगन्तव्यः । न ह्यदृश्यस्य परिच्छेदः, १. पा०, गा० पुस्तकयोर्नास्ति । २. यद्यवच्छेद्या० - पा०; यद्यवदच्छेद्यानानन्त०- गा० । ३. ० विरोक :- जै० । ४. ० भूतस्य पा० ।

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450