Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 365
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७६९ इदानीं न सन्तीत्यतीतेऽपि ते काले नाभूवन्निति शक्यमनुमातुम् । अतो रामादिभिरनैकान्त्यादनैकान्तिकता हेतोः ॥ ३५०७॥ यच्चोक्तम्-"दृष्टो न चैकदेशोऽपि लिङ्गं वा" (तत्त्व० ३१८५) इत्यत्राह प्रज्ञादीनां च धर्मित्वं कृत्वा लिङ्गमुदीरितम्। 'न नाम दृश्यते लिङ्गं न च सत्ता प्रसाध्यते ॥ ३५०८॥ "ये चासमानजातीय" इत्यादिना प्रज्ञादीनां धर्मित्वं विधाय लिङ्गमुदीरितम्, अतो लिङ्गं नास्तीत्येतदसिद्धम् । नापि सत्ता साध्यते, किं तर्हि ? प्रज्ञादीनामत्यन्त त्कर्षाख्यो धर्मः तदेव च सर्वज्ञत्वम्, अतः सत्तासाधनेऽपि ये दोषास्तेऽप्यत्र नावतरन्त्येव ॥ ३५०८ ।। "न चागमविधिः कश्चित्" (तत्त्व० ३१८६) इत्यादावाह आगमेन च सर्वज्ञो नास्माभिः प्रतिपाद्यते। लिङ्गे सति हि पूर्वोक्ते को नामागमतो वदेत्॥ ३५०९॥ न हि वस्तुबलप्रवृत्तानुमानसम्भवे सति कश्चिदिच्छामात्रानुविधायिनो वचनाद् वस्तुसिद्धिमन्विच्छेत्। अतो न वयमागमात् सर्वज्ञं साधयामः, किं तर्हि ? अनुमानात्। तच्च पूर्वोक्तमेव ।। ३५०९ ।। [G.909] न चाप्येतत्सिद्धम्-"न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधने " (तत्त्व० ३१८६) इति दर्शयन्नाह किन्तु वेदप्रमाणत्वं यदि युष्माभिरिष्यते। तत् किं भगवतों मूढैः सर्वज्ञत्वं न गम्यते॥३५१०॥ .निमित्तनाम्नि सर्वज्ञो भगवान् मुनिसत्तमः। शाखान्तरे हि विस्पष्टं पठ्यते ब्राह्मणैर्बुधैः॥ ३५११॥ तथा हि-निमित्तं नाम. शाखान्तरमस्ति, तत्र स्फुटतरमयमेव भगवान् शाक्यमुनिः सर्वज्ञः पठ्यते, तत्किमिति मूढैर्वेदं प्रमाणयद्भिरपि भवद्भिरसौ प्रतिक्षप्यते ॥ ३५१०-३५११॥ कथमसौ तत्र पठ्यते? इत्यादर्शयन्नाह- . योऽसौ षड्दन्तमात्मानमवदातद्विपात्मकम्। स्वाने प्रदर्श्य सञ्जातो बोधिसत्त्वो गुणोदधिः ॥३५१२॥ विघुष्टशब्दः सर्वज्ञः कृपात्मा स भविष्यति। प्राप्तामृतपदः शुद्धः सर्वलोकपितेति च॥३५१३॥ विधुष्टशब्द इति सकलजगत्प्रख्यातकीर्तिः । प्राप्तामृतपद इति प्राप्तसवासनाशेषक्लेशोपशमलक्षणनिर्वाणपद इत्यर्थः । शुद्ध इति अनाश्रवधातुमयः । एतावता भगवतोऽज्ञानप्रहाणलक्षणा स्वार्थसम्पत् परिदीपिता। परार्थसम्पदं दीपयन्नाह- सर्वलोकपितेति । पिता शास्ता। सर्वस्य जगतो ज्ञानत्रयसुगतिप्रतिष्ठापनात् ॥ ३५१२-३५१३॥ अथेत्यादिना परस्योत्तरमाशङ्कते१.. पा०, गा० पुस्तकयो स्ति। २-२. तन्नाम— गा०। ३. प्रसिध्यते- पा०। ४. तु-पा०. गा० । ५. लैड़े-पा०, गा०/ ६-६. ०अस्ति इति-पा०, इति इति- गा० / ७ पितापि- पा०, गा० ।

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450