Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 382
________________ ७८६ तत्त्वसंग्रहे अत्र केचित् स्वयूथ्या एव विज्ञानवादिमतमुपोद्वंलयन्तश्चोदयन्ति-"यदि युगपदेकज्ञानक्षणेन अविशेषं ज्ञेयमण्डलं व्याप्यते', तदा भावानामियत्ताऽपरिच्छेदादानन्त्यमभ्युपेतं बाध्येत । तथा हि-एकज्ञानारूढाद् भावादन्यो भावो नास्तीत्येवं परिच्छिद्यमानाः कथमन्तवन्तो न भवेयुः । आह च 'एकज्ञानसमारूढान्नान्यो भावोऽस्ति कश्चन। इयन्त इति विज्ञानादन्तवन्तः . . . . . . . . . . . . . ।' ( )इति, ततश्च क्रमपक्षे यो दोषः स युगपज्ज्ञानपक्षेऽपि" इति; तदेतदसारम्; यदि तावन्निरकारविज्ञानवादिमतमाश्रित्य चोद्यते, तदा सर्वमसङ्गतम्। तथा हि-यावत् किञ्चिद्वस्तुजातं. [G.930] सत्तामनुभवति, तस्य सर्वस्य सत्तामात्रेण सर्वज्ञचेतसा परिच्छदात् तेन तव्याप्तमिति व्यपदिश्यते, न तु पटेनेव घटानां देशपर्यन्ततया व्याप्तेः । न चैकेन ज्ञानेन परिच्छिन्नानीत्येतावता वस्तूनामात्मस्वभावहानिः, येन तान्येकज्ञानपरिच्छेदवशादनन्तत्वमात्मस्वभावं जह्यः । न हि नीलपीतादयो भावा बहवो युगपच्चित्रास्तरणादिष्वेकज्ञानक्षणावसीयमानतनघोऽनेकत्वं जहति, नापि परस्परमन्वाविशन्ति; अपि तु यथेव सन्ति तथैव ज्ञानेन परिच्छिद्यन्ते, नान्येन रूपेण। तद्वत् सत्त्वभाजनलोकोऽपि यथैव सत्तामनुभवति तथैव सर्वज्ञचेतसा गृह्यते। अपर्यन्तश्च दिक्षु विदिक्षु सत्त्वादिलोकोऽवस्थित, इत्यपर्यन्ततया तस्य ग्रहणम्, न तु पर्यन्तवर्त्तितयेति कुतोऽन्तवत्त्वप्रसङ्गः! स्यादेतत्, सकलग्रहणाभ्युपगमे कथं पर्यन्तग्रहणं न स्यादिति? नैतदस्ति; को पत्र प्रतिबन्धः-यत्र साकल्यग्रहणं तत्रावश्यं पर्यन्तग्रहणमिति। तथा हि-यावन्तस्ते सन्ति भावाः, तेषां मध्ये नैकोऽपि सर्वज्ञज्ञानाविदितस्वरूपः सत्तामनुभवति; अपि तु सर्व एव सर्वज्ञचेतसा विदितस्वरूपा एवोदयन्ते व्ययन्ते च, नैकोऽपि परित्यक्त इत्ययं सकलग्रहणस्यार्थः । इयमेव च तेषामेकज्ञानेन व्याप्तिः; अन्यथा सकलशब्दवाच्यत्वमपि तेषां नाङ्गीकर्त्तव्यं मा भूदन्तवत्त्वप्रसङ्ग इति यत्किञ्चिदेतत्। ' यच्चोक्तम्-एकज्ञानारूढाद् भावादन्यो नास्तीत्येवं परिच्छेदात् कथमन्तवन्तो न भवेयुरिति? तदप्यसम्यक्; न हि निराकारज्ञानवादिपक्षे ज्ञानात्मनि भावानामारोहणमस्ति, अपि तु सत्तामात्रेण तेन निवेद्यन्ते । नापि भावानां ज्ञानापरिच्छेद्यस्वभावतयाऽनन्तत्वमभ्युपेतम्, येन ज्ञायमानतया तेषामन्तवत्त्वं प्रसज्येत; किन्तु देशवितानापर्यन्ततयाऽनन्तो भाजनलोकः, सत्त्वलोकस्तु सङ्ख्यानापर्यन्ततयापि। न च देशावष्टम्भाय पर्यन्तत्वे सति ग्राह्यविरोध: कश्चिद्, येनाग्राह्यता भवेत् । यदि पर्यन्ततया न संगृह्णाति, कथं सर्वज्ञः स्यादिति चेद् ? अत एव। यत एवासौ पर्यन्ततया न गृह्णाति तत एव सर्वज्ञो भवति; अन्यथाऽनन्तं वस्त्वन्तवत्त्वेन गृह्णन् भ्रान्तो भवेत् । तथा हि-यदस्ति तदस्तित्वेन, यन्नास्ति तन्नास्तित्वेन गृह्णन् सर्वविदुच्यते। न च सत्त्वभाजनलोकस्य पर्यन्तोऽस्ति । तस्मात् पर्यन्तमविद्यमानमविद्यमानंतया गृह्णन्, सर्वज्ञज्ञानपरिच्छेदकृतं तु पर्यन्तं विद्यमानं विद्यमानतया पश्यन् कथमसर्वज्ञो नाम ! १. विशेष-जै०, पा०। ५. इत्यपर्यन्तया-पा०। २. व्याघाते-पा०। ६. ०ऽसति-गा०। ३. भावनानि यत्ना०-जे०, पा०। ४. ०ज्ञानं-पा०। ७ पर्यन्तं गमनकृतमविद्यमानतया- जै०, पा०॥

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450