Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 383
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७८७. स्यादेतत्-निराकारज्ञानपक्षे विषयग्रहणमनुपपन्नम्; सर्वत्राविशिष्टत्वात् तस्य, तेन प्रतिकर्मविभागानुपपत्तेः; अतो निराकारपक्षोऽनुपन्यसनीय एव, सर्वदा तस्य दुष्टत्वादिति? तदेतदसम्यक्; [G.931] न हि सर्वज्ञज्ञानस्य प्रतिकर्म विभाग इष्यते, तस्य सर्ववस्तुविषयत्वात्; यतो न तन्नीलस्यैव संवेदनम्, पीतस्यैव वा, अपि तु सर्वस्यैवेतीष्टम्। यस्य ह्यग्दर्शनस्य ज्ञानं प्रतिनियतार्थविषयम्, तं प्रति निराकारज्ञानपक्षे सर्वत्राविशेषात् प्रतिकर्मविभागानुपपत्तिर्दोष उच्यते। तथा हि-'नीलस्येदं संवेदनं न पीतस्य' इति नियमाभावात् सर्वस्य पृथग्जनस्य सर्वज्ञत्वप्रसङ्गापादनं क्रियते, सर्वज्ञस्य तु तदिष्टमेवेति कस्य किमनिष्टमापद्यताम् ! तेन सर्वज्ञावस्थायां निराकारं योगबलेनोत्पद्यमानमविरुद्धमेव। विभागेन हेयोपादेयवस्तुपरिज्ञानं न स्यादिति चेत् ? न; यदि हि युगपदनन्ते वस्तुनि प्रतिभासमाने हेयोपादेयवस्तुनः प्रतिभासविरोध: स्यात्, अविरोधे चान्यैः प्रतिभासमानस्य तस्य हेयोपादेयवस्तुनः तत्त्वप्रच्युतिः स्यात्, प्रच्युततत्त्वस्यापि विभागेनावभासनमेव वा न स्यात्, विरुद्धावभासनस्यापि यदि परिच्छेदकः शुद्धलौकिको विमर्शप्रत्ययः पृष्ठभावी नोत्पद्यते, तदैतत्सर्वं स्याद् वक्तुम्; यावता विश्वस्मिन् जगत्यवभासमाने तदपि हेयोपादेयं वस्त्वविरुद्धप्रतिभासमप्रच्युतात्मतत्त्वं विरुद्धमेवावभासते । पश्चाच्च सर्वज्ञज्ञानबलोत्पन्नशुद्धलौकिकप्रत्यवमर्शप्रत्ययेन परिच्छिद्यत एवेति कथं विभागेन तदपरिज्ञानं नाम! तदेवं निराकारज्ञानपक्षेतावदचोद्यमेतदिति प्रतिपादितम्। अथ साकारज्ञानवादपक्षे चोद्यते? तत्राप्यविरोध एव। तथा हि-यथैव तदनन्तं वस्त्वनन्ताकारानुगतमात्मसत्त्वं सत्तामनुभवति, तथैव तत् सार्वज्ञं चेतोऽपरिमितवस्तुगताकारोपग्रहेणोत्पयमानमविरुद्धमेव; एकस्य ज्ञानस्यानेकवस्त्वाकारोपग्रहेणोत्पत्त्यविरोधात्। एकस्यानेकाकारविरोध एवेति चेत्? न; आकाराणामसत्यत्वात् । यदि ह्येकस्य पारमार्थिका आकारा भवेयुः, तदा स्यादेकस्य विचित्रत्वविरोध:' यावता अस्य भूता एवाकारा इतीष्टम्। यद्येवम्, भ्रान्तज्ञानसंङ्गित्वात् भ्रान्तः प्राप्नोति सर्वज्ञ इति चेत्, न; यथाभूतपरिज्ञानाददोष एषः । यदि ह्यसत्यं सत्यत्वेन गृह्णीयात्, तदा भ्रान्तः स्यात्; यदा त्वसत्यभूतानाकारानसत्यत्वेनैव जानाति तदा कथं भ्रान्तो भवेत् ! अथाव्यतिरिक्तज्ञानारूढाकारग्रहणे सत्यर्थेषु दृष्टादिव्यवहारं कुर्वन् कथं न भ्रान्त इति चेत् ? न; सम्यगुपायपरिज्ञानात्। यदि ह्यचितं ग्रहणोपायमपास्योपायान्तरेणामुख्येनार्थः गृह्णीयात्, तदा भ्रान्तो भवेत्। यावता साकारज्ञानवादिपक्षे ज्ञानस्याकारानुभवव्यतिरेकेण नान्योऽर्थग्रहणव्यापारोऽस्ति, तत् कथमुचितेन ग्रहणव्यापारेणार्थं गृह्णन् भ्रान्तो भवेत् ! अतो ज्ञेयवदेकस्यापि [G.932] ज्ञानस्यानन्तवस्तुगताकारोपग्रहेणोत्पत्तेरनन्तं वस्तु तेन व्याप्तमित्युच्यते। येनैव चात्मना ज्ञानात्मनि भावाः समारोहन्ति,तेनैव तत्पृष्ठभाविपरामर्शचेतसा परिच्छिद्यन्ते। न च सार्वज्ञचेतसि परिमितभेदानुगताः समारोहन्ति भावाः, किं तर्हि ? यावत् किञ्चिदस्तित्वमनुभवति तत् सर्वमेव समारोहति। सर्वस्यैव सर्वज्ञानोपादानं १. प्रच्युतत्त्वस्यापि-पा०। २. ०भासमेव-पा०। ३. निरुक्तावभास०-गा० । ४. निरुक्तमेवाव०-गा। . ५-५. स्याद्विचित्र-पा०,गा०। ६-६. अस्वभूता-गा०। ७. ०ज्ञानसमङ्गित्वाद्-जै०, ०ज्ञानसङ्गित्वा-पा०। ८-८. भ्रान्त-पा०,अभ्रान्त-गा। ९. मुख्येनार्थे- जै०। १०. प्रत्यालम्बनभावो०-०।।

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450