Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 385
________________ अतीन्द्रियार्थदर्शिपरीक्षा तद्ग्राहकं च विज्ञानं भावनाबलभावि यत् । योगीशान्प्रमभिव्यक्तं तत्स्वलक्षणगोचरम् ॥ ३६३३ ॥ तदेव हि स्वलक्षणं विजातीयव्यावृत्तमभिन्नाकारप्रत्ययहेतुतया शास्त्रे सामान्यलक्षणमित्युच्यते, अतस्तंद्ग्राहकं योगिज्ञानं भावनाबलेन स्फुटप्रतिभासमुत्पद्यमानं स्वलक्षणगोचरमेवेत्यविरुद्धमेतत्'– यत् सामान्यगोचरं तत् कथं स्वलक्षणग्राहि तद्भवतीति । यच्चोक्तम्–‘“ तदेकाकारविज्ञानम्" (तत्त्व० ३२२५ ) इत्यादि, तत्सर्वमेतेनैव प्रत्युक्तम्; स्वलक्षणविषयत्वाद् योगिज्ञानस्येति ॥ ३६३२-३६३३॥ अथ यत्तत् सांवृतं तत्त्वान्यत्वादिभिराकारैरनिर्देश्यं सामान्यमस्माभिरुपवर्णितम्, यच्च परैस्तैर्थिकैः पारमार्थिकमेव प्रकल्पितम्, तद्ग्राहित्वेन योगिज्ञानस्य स्वलक्षणविषयत्वं साध्यते, तदसिद्धमित्यादर्शयन्नाह तत्त्वान्यत्वाद्यनिर्देश्यं यत्परैश्च प्रकल्पितम् । सामान्यं तस्य नैतेन ग्रहणं योगिचेतसा ॥ ३६३४ ॥ आदिशब्देन नित्यत्वादिभिरनिर्देश्यमिति ग्रहीतव्यम् ॥ ३६३४ ॥ कस्मात् तेन तस्य ग्रहणं नास्ति ? ' इत्याह अविकल्पमविभ्रान्तं तद्योगीश्वरमानसम् । - ७८९ विकल्पविभ्रमाक्रान्तं तद्ग्रहे च प्रसज्यते ॥ ३६३५ ॥ [G.934] योगिज्ञानमविकल्पाभ्रान्ततया प्रत्यक्षं प्रमाणमिष्यते । यदि च तद् यथोक्तसामान्यविषयं स्यात्, तदा सांवृतार्थविषयत्वाद् विकल्पाक्रान्तं प्राप्नोति । परपरिकल्पितालीकसामान्यविषयत्वाद् विभ्रमाक्रान्तं च प्रसज्यते । यद्वा --- -प्रत्येकमुभयविषयत्वे दोषद्वयमापतति ॥ ३६३५ ॥ १. विरुद्धमेव पा०, गा० । एवमध्यारोपितालीकार्थविषयत्वाद् विकल्पविभ्रमाक्रान्तं तत् प्रसज्यत इति प्रतिपादितम् । इतश्च विकल्पविभ्रमाक्रान्तं तद्ग्राहि प्रसज्यत इति भङ्गयन्तरेण प्रतिपादयन्नाहविकल्पात्मा च सामान्यमवाच्यं यत् प्रकीर्त्तितम् । नित्यानुगतिरूपं तन्नीरूपं प्रतिपादितम् ॥ ३६३६ ॥ य़देतदनन्तरोक्तमवाच्यम्-तत्त्वान्यत्वाद्यनिर्देश्यं सामान्यमुक्तम्, तद्विकल्पस्यात्मेति यद् यस्मात् प्रकीर्तितम्=प्रतिपादितमन्यापोहे । तस्मात् तद्ग्रहे विकल्पविभ्रमाक्रान्तं प्रसज्यत इति प्रकृतेन सम्बन्धः । तथा हि-विकल्पात्मतया सामान्यस्य तद्ग्राहियोगिज्ञानं विकल्पात्मकमेव स्यात्; तादात्म्येनैव तस्य ग्रहणात् । विभ्रमाक्रान्तं च प्रसज्येत । यच्च परपरिकल्पितं सामान्यं नित्यानुगतिरूपम्, तदपि सामान्यपरीक्षायां नीरूपस्वभावमेव प्रतिपादितमिति तद्ग्रहे स्फुटतरमेव विकल्पविभ्रमाक्रान्तत्वमासज्यते ॥ ३६३६ ॥ यच्चोक्तम् — “ सहेतु सकलं कर्म" (तत्त्व० ३२५५) इत्यादि, तत्राह - सहेतु सकलं कर्म ज्ञानेनालौकिकेन यः । समाधिजेन जानाति स सर्वज्ञोऽपदिश्यते ॥ ३६३७ ॥ २. तद्यत्- पा०, गा० । ३. न स्वलक्षण०- गा० ।

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450