________________
अतीन्द्रियार्थदर्शिपरीक्षा
तद्ग्राहकं च विज्ञानं भावनाबलभावि यत् । योगीशान्प्रमभिव्यक्तं तत्स्वलक्षणगोचरम् ॥ ३६३३ ॥
तदेव हि स्वलक्षणं विजातीयव्यावृत्तमभिन्नाकारप्रत्ययहेतुतया शास्त्रे सामान्यलक्षणमित्युच्यते, अतस्तंद्ग्राहकं योगिज्ञानं भावनाबलेन स्फुटप्रतिभासमुत्पद्यमानं स्वलक्षणगोचरमेवेत्यविरुद्धमेतत्'– यत् सामान्यगोचरं तत् कथं स्वलक्षणग्राहि तद्भवतीति ।
यच्चोक्तम्–‘“ तदेकाकारविज्ञानम्" (तत्त्व० ३२२५ ) इत्यादि, तत्सर्वमेतेनैव प्रत्युक्तम्; स्वलक्षणविषयत्वाद् योगिज्ञानस्येति ॥ ३६३२-३६३३॥
अथ यत्तत् सांवृतं तत्त्वान्यत्वादिभिराकारैरनिर्देश्यं सामान्यमस्माभिरुपवर्णितम्, यच्च परैस्तैर्थिकैः पारमार्थिकमेव प्रकल्पितम्, तद्ग्राहित्वेन योगिज्ञानस्य स्वलक्षणविषयत्वं साध्यते, तदसिद्धमित्यादर्शयन्नाह
तत्त्वान्यत्वाद्यनिर्देश्यं यत्परैश्च प्रकल्पितम् ।
सामान्यं तस्य नैतेन ग्रहणं योगिचेतसा ॥ ३६३४ ॥ आदिशब्देन नित्यत्वादिभिरनिर्देश्यमिति ग्रहीतव्यम् ॥ ३६३४ ॥ कस्मात् तेन तस्य ग्रहणं नास्ति ? ' इत्याह
अविकल्पमविभ्रान्तं तद्योगीश्वरमानसम् ।
-
७८९
विकल्पविभ्रमाक्रान्तं तद्ग्रहे च प्रसज्यते ॥ ३६३५ ॥
[G.934] योगिज्ञानमविकल्पाभ्रान्ततया प्रत्यक्षं प्रमाणमिष्यते । यदि च तद् यथोक्तसामान्यविषयं स्यात्, तदा सांवृतार्थविषयत्वाद् विकल्पाक्रान्तं प्राप्नोति । परपरिकल्पितालीकसामान्यविषयत्वाद् विभ्रमाक्रान्तं च प्रसज्यते । यद्वा --- -प्रत्येकमुभयविषयत्वे दोषद्वयमापतति
॥ ३६३५ ॥
१. विरुद्धमेव पा०, गा० ।
एवमध्यारोपितालीकार्थविषयत्वाद् विकल्पविभ्रमाक्रान्तं तत् प्रसज्यत इति प्रतिपादितम् । इतश्च विकल्पविभ्रमाक्रान्तं तद्ग्राहि प्रसज्यत इति भङ्गयन्तरेण प्रतिपादयन्नाहविकल्पात्मा च सामान्यमवाच्यं यत् प्रकीर्त्तितम् । नित्यानुगतिरूपं तन्नीरूपं प्रतिपादितम् ॥ ३६३६ ॥ य़देतदनन्तरोक्तमवाच्यम्-तत्त्वान्यत्वाद्यनिर्देश्यं सामान्यमुक्तम्, तद्विकल्पस्यात्मेति यद् यस्मात् प्रकीर्तितम्=प्रतिपादितमन्यापोहे । तस्मात् तद्ग्रहे विकल्पविभ्रमाक्रान्तं प्रसज्यत इति प्रकृतेन सम्बन्धः । तथा हि-विकल्पात्मतया सामान्यस्य तद्ग्राहियोगिज्ञानं विकल्पात्मकमेव स्यात्; तादात्म्येनैव तस्य ग्रहणात् । विभ्रमाक्रान्तं च प्रसज्येत । यच्च परपरिकल्पितं सामान्यं नित्यानुगतिरूपम्, तदपि सामान्यपरीक्षायां नीरूपस्वभावमेव प्रतिपादितमिति तद्ग्रहे स्फुटतरमेव विकल्पविभ्रमाक्रान्तत्वमासज्यते ॥ ३६३६ ॥
यच्चोक्तम् — “ सहेतु सकलं कर्म" (तत्त्व० ३२५५) इत्यादि, तत्राह - सहेतु सकलं कर्म ज्ञानेनालौकिकेन यः ।
समाधिजेन जानाति स सर्वज्ञोऽपदिश्यते ॥ ३६३७ ॥
२. तद्यत्- पा०, गा० ।
३. न स्वलक्षण०- गा० ।