SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ७९० तत्त्वसंग्रहे पुरस्तादनुमानेन तस्य सत्ता प्रसाधिता। प्रमाणमस्य सद्भावे तदस्तीत्यस्ति तादृशः ॥ ३६३८॥ • "युगपत् परिपाट्या च" (तत्त्व० ३२५७) इत्यादावाह युगपत्परिपाट्या वा ज्ञानं कार्यात् प्रकाशितात्। सामर्थ्यमपि तस्यास्ति देशनां कुरुते यदा॥३६३९॥ [G.935] सुबोधम् ॥ ३६३९॥ "लब्धासाधारणोपायः" (तत्त्व० ३२५९) इत्यादावाह स्वभ्यस्तधर्मनैरात्म्या यस्येयं देशनाऽमला। साधिता सर्वशास्त्रेण सर्वमानैरबाधिता॥ ३६४०॥... संसार्यनुचितज्ञाना केशवादेरगोचरः। शिरोभिरर्च्यते भक्त्या या चातीव मनीषिभिः॥३६४१॥ समस्तदुरितारातिवर्गभङ्गविधायिनी । चित्राभ्युदयनिष्पत्तिनिर्वाणप्राप्तिकारणम् ॥३६४२॥ लब्धासाधारणोपायोऽशेषपुंसां विलक्षणात्। स एकः सर्वविन्नाथ इत्येतत् सप्रमाणकम्॥३६४३॥ विस्तर:- सर्वशास्त्रेणेति । सकलेनामुना तत्त्वसङ्गहण। संसार्यनुचितज्ञानेति संसारिणामनुचितम्= असहजं संसार्यनुचितं तत् तादृशं ज्ञानं यस्यां देशनायां सा तथोक्ता . केशवादेरगोचर इति । स्वलिङ्गेनैव देशनासमानाधिकरणमेतत्। समस्तदुरितारातिवर्गभङ्गविधायिति । दुरितान्येवारातयस्तेषां वर्ग:-समूहः, तस्य भङ्ग विधातुं शीलमस्या इति विग्रहः । चित्राभ्युदयनिष्पत्तिनिर्वाणप्राप्तिकारणमिति । कारणशब्द: प्रत्येकमभिसम्बध्यते । चित्राभ्युदयनिष्पत्तिकारणं चेत्यर्थः ॥ ३६४०-३६४३॥ . "इत्थं यदा न" (तत्त्व० ३२६०) इत्यादावाह इत्थं यदा च सर्वज्ञः कश्चिदेवोपपद्यते। धर्मादयधिगमे हेतुः पौरुषेयं तदा वचः ।। ३६४४॥ कश्चिदेवेति । सुगत एव, न कपिलादिः। यथोक्तं प्रागित्यभिप्राय: । यश्च निराकारसाकारज्ञानविकल्पेन दोष उक्तः, तदपि पूर्वमेवास्माभिः प्रतिविहितम् ॥ ३६४४ ॥ ननु चोक्तम् "अनिर्भासं सनिर्भासमन्यनिर्भासमेव च। विजानाति न विज्ञानं बाह्यमर्थं कथञ्चन ॥" (तत्त्व० १९९८) इति, तत् कथमुभयपक्षाश्रयणेऽपि दोषाप्रसङ्ग उच्यते?-इत्येतदाशङ्कय आह निराकारादिचिन्ता तु सर्वज्ञे नोपयुज्यते। यथा हि भवतां ज्ञानं क्वचिदर्थे तथा परम्॥३६४५॥ श्रीशान्तरक्षितविरचितस्तत्त्वसंग्रहः समाप्त: २. शक्त्या -पा०, गा०। । ४. पा०, गा० पुस्तकयोनास्ति। - : - बिलक्षण -गा।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy