________________
७९१
अतीन्द्रियार्थदर्शिपरीक्षा [G.936] येयमस्माभिर्विज्ञानवादस्थितैर्निराकारचिन्ता प्रागकारि, सा साम्प्रतं बाह्यार्थाभिनिविष्टान् भवतो मीमांसका प्रति बहिरर्थमभ्युपेत्य सर्वज्ञे प्रतिपाद्यमाने भवतां बहिरर्थवादिनां कथमपि नोपयुज्यत एव कर्तुम् । कथम् ? इत्याह-यथा हीत्यादि।अवश्यं हि भवद्भिर्बहिरर्थस्य साकारेण वा निराकारेण वा ज्ञानेन ग्रहणमुपवर्णनीयम्, अन्यथा बहिरर्थोच्छेदः स्यात्। ततश्च यथा येन प्रकारेण भवतां क्वचिदर्थे ज्ञानं प्रवर्त्तते, तथा तेनैवाकारेण परम् उत्कृष्टम, सार्वज्ञमिति सम्बध्यते, प्रवर्तिष्यते इत्यचोद्यमेतदिति ॥ ३६४५॥
इति कुशलमदभ्रं यन्मयाप्रापि शुभ्रम्, निरुपमजिनलक्ष्मीसद्मतामेत्य नित्यम। सकलजनमनांसि प्रीणयन् दीप्तकान्तिः, सुगतकमलशीलस्तेन सर्वोऽस्तु लोकः॥
इत्यतीन्द्रियदर्शिपुरुषपरीक्षा कमलशीलविरचिता पञ्जिका समाप्ता॥