________________
७८८
तत्त्वसंग्रहे प्रत्यालम्बनभावेनाप्रतिबद्धशक्तित्वात् । मनोविज्ञानस्य च सर्वार्थविषयत्वात् । अतः सार्वज्ञचेतसः परिमितवस्त्वाकारोपग्रहणेऽननुपपत्तेः,पृष्ठलब्धेन च शुद्धलौकिकेन परामर्शप्रत्ययेन देशपर्यन्तवर्त्तित्वेनापरिच्छेदात् कथम् ‘इयन्तः' इति परिच्छेदो भवेत्, येनान्तवत्त्वं स्यात्। यदि नाम 'प्रतिभासनादन्यन्नास्तीत्येवं परामर्शो जातः, तथापि नान्तवत्त्वप्रसङ्गः । तथा हियदि प्रतिभासमानमन्तवदेव निर्विकल्पसर्वज्ञचेतसि प्रतिभासेत, तदा तत्पृष्ठलब्धेन परामर्शचेतसा अनन्तत्वं भावानां परिच्छिद्यते। तद्व्यवच्छेदाच्चानन्तत्वहानिर्भवेत्; यावता परिभासमानं वस्तु सर्वज्ञचेतस्यनन्तमेव प्रतिभासते; सर्वज्ञस्याप्रतिहतशक्तित्वात् । तस्मादन्यदप्रतिभासमानमन्तवदेव । तस्यैव च परामर्शचेतसा व्यवच्छेदः क्रियत इति सुतरामेव भवताऽनन्तत्वं भावानामुपपादितमिति यत्किञ्चिदेतत्।।
ये तु पुनः "सर्वमेव योगिविज्ञानमनालम्बनं सत्यस्वप्रदर्शनवद् वस्तुसंवादितया प्रमाणम्" इति प्रतिपन्नाः, तान् प्रत्यन्तवत्त्वचोद्यं दूरीकृतावकाशमेवेत्यलं बहुना ।। ३६२६ ॥ यैः स्वेच्छासर्वज्ञो वर्ण्यते, तन्मतेनाप्यसौ न विरुध्यत इत्यादर्शयन्नाह
यद यदिच्छति बोद्धं वा तत्तद वेत्ति नियोगतः। शक्तिरेवंविधा तस्य प्रहीणाचरणो ह्यसौ ॥ ३६२७॥ युगपत् परिपाट्या वा स्वेच्छया प्रतिपद्यते।
लब्धज्ञानं च सत्त्वो हि सक्षणैयादिभिः प्रभुः॥३६२८॥ यद्वेत्यादिना क्रमज्ञानपक्षेऽप्यविरोधमाह- .
यद्वा षोडशभिश्चित्तैश्चतुःसत्यस्वभावकम्। क्रमेण वेत्ति विज्ञेयं सर्वं सर्वविदित्यतः॥३६२९॥ तत्र तादृशि विज्ञाने क्रमेण भवति प्रभोः।
लवमात्रोऽपि नापेक्ष्यः किमडाब्दशतावधिः॥३६३०॥ |G.933) षोडशभिश्चित्तैरितिक्षान्तिज्ञानैः । अष्टौ क्षान्तयः-दुःखे धर्मज्ञानक्षान्त्यादय:६,अष्टौ च ज्ञानानि-दु:खे धर्मज्ञानानीति; 'षोडशभिन्नोऽयं सत्याभिसमयः' इति वचनात् । लवमात्रोऽपति। 'कलापर्यन्तः क्षणः,विंशक्षणशतमेक: तत्क्षणः, षष्टिस्तत्क्षणा एको लवः' इति समयः। अङ्ग्रेत्यामन्त्रणे। अब्द इति संवत्सरपर्यायः ॥ ३६२९-३६३० ।। "स्वभावेनाविभक्तेन" (तत्त्व० ३२५०) इत्यादावाह
स्वभावेनाविभक्तेन यः सर्वमबुध्यते।
स्वरूपाण्येव भावानां सर्वेषां सोऽवबुध्यते॥३६३१॥ नन् योगिनामनाश्रवं ज्ञानं शास्त्र सामान्यविषयमेवोपवर्ण्यते, न तु स्वलक्षणविषयम्, तत् कथं सामान्यविषयेण योगिचेतसा भावानां स्वरूपाण्येव च बुध्यन्ते? इत्यत आह
सात्मकाक्षणिकादिभ्यो यद्वयावृत्तं स्वलक्षणम्। शमोत्प्रेक्षानिमित्तत्वात् सामान्यं तदिहोच्यते॥३६३२॥
१. अपरिमित-गा। 2. परिहासमानं-जें। . कालपर्यन्त:-पा
२. प्रतिभासमाना०-गा। ..
३.०नन्तहानि०-पा० । ५. सर्वस्याप्रतिक-पा०।६-६. दु:खधर्म-पा०, गा०; एवमुपर्यपि। ८. स्वात्मकाक्षणि-पा० ।