________________
अतीन्द्रियार्थदर्शिपरीक्षा
७८७. स्यादेतत्-निराकारज्ञानपक्षे विषयग्रहणमनुपपन्नम्; सर्वत्राविशिष्टत्वात् तस्य, तेन प्रतिकर्मविभागानुपपत्तेः; अतो निराकारपक्षोऽनुपन्यसनीय एव, सर्वदा तस्य दुष्टत्वादिति? तदेतदसम्यक्; [G.931] न हि सर्वज्ञज्ञानस्य प्रतिकर्म विभाग इष्यते, तस्य सर्ववस्तुविषयत्वात्; यतो न तन्नीलस्यैव संवेदनम्, पीतस्यैव वा, अपि तु सर्वस्यैवेतीष्टम्। यस्य ह्यग्दर्शनस्य ज्ञानं प्रतिनियतार्थविषयम्, तं प्रति निराकारज्ञानपक्षे सर्वत्राविशेषात् प्रतिकर्मविभागानुपपत्तिर्दोष उच्यते। तथा हि-'नीलस्येदं संवेदनं न पीतस्य' इति नियमाभावात् सर्वस्य पृथग्जनस्य सर्वज्ञत्वप्रसङ्गापादनं क्रियते, सर्वज्ञस्य तु तदिष्टमेवेति कस्य किमनिष्टमापद्यताम् ! तेन सर्वज्ञावस्थायां निराकारं योगबलेनोत्पद्यमानमविरुद्धमेव। विभागेन हेयोपादेयवस्तुपरिज्ञानं न स्यादिति चेत् ? न; यदि हि युगपदनन्ते वस्तुनि प्रतिभासमाने हेयोपादेयवस्तुनः प्रतिभासविरोध: स्यात्, अविरोधे चान्यैः प्रतिभासमानस्य तस्य हेयोपादेयवस्तुनः तत्त्वप्रच्युतिः स्यात्, प्रच्युततत्त्वस्यापि विभागेनावभासनमेव वा न स्यात्, विरुद्धावभासनस्यापि यदि परिच्छेदकः शुद्धलौकिको विमर्शप्रत्ययः पृष्ठभावी नोत्पद्यते, तदैतत्सर्वं स्याद् वक्तुम्; यावता विश्वस्मिन् जगत्यवभासमाने तदपि हेयोपादेयं वस्त्वविरुद्धप्रतिभासमप्रच्युतात्मतत्त्वं विरुद्धमेवावभासते । पश्चाच्च सर्वज्ञज्ञानबलोत्पन्नशुद्धलौकिकप्रत्यवमर्शप्रत्ययेन परिच्छिद्यत एवेति कथं विभागेन तदपरिज्ञानं नाम! तदेवं निराकारज्ञानपक्षेतावदचोद्यमेतदिति प्रतिपादितम्।
अथ साकारज्ञानवादपक्षे चोद्यते? तत्राप्यविरोध एव। तथा हि-यथैव तदनन्तं वस्त्वनन्ताकारानुगतमात्मसत्त्वं सत्तामनुभवति, तथैव तत् सार्वज्ञं चेतोऽपरिमितवस्तुगताकारोपग्रहेणोत्पयमानमविरुद्धमेव; एकस्य ज्ञानस्यानेकवस्त्वाकारोपग्रहेणोत्पत्त्यविरोधात्। एकस्यानेकाकारविरोध एवेति चेत्? न; आकाराणामसत्यत्वात् । यदि ह्येकस्य पारमार्थिका आकारा भवेयुः, तदा स्यादेकस्य विचित्रत्वविरोध:' यावता अस्य भूता एवाकारा इतीष्टम्। यद्येवम्, भ्रान्तज्ञानसंङ्गित्वात् भ्रान्तः प्राप्नोति सर्वज्ञ इति चेत्, न; यथाभूतपरिज्ञानाददोष एषः । यदि ह्यसत्यं सत्यत्वेन गृह्णीयात्, तदा भ्रान्तः स्यात्; यदा त्वसत्यभूतानाकारानसत्यत्वेनैव जानाति तदा कथं भ्रान्तो भवेत् ! अथाव्यतिरिक्तज्ञानारूढाकारग्रहणे सत्यर्थेषु दृष्टादिव्यवहारं कुर्वन् कथं न भ्रान्त इति चेत् ? न; सम्यगुपायपरिज्ञानात्। यदि ह्यचितं ग्रहणोपायमपास्योपायान्तरेणामुख्येनार्थः गृह्णीयात्, तदा भ्रान्तो भवेत्। यावता साकारज्ञानवादिपक्षे ज्ञानस्याकारानुभवव्यतिरेकेण नान्योऽर्थग्रहणव्यापारोऽस्ति, तत् कथमुचितेन ग्रहणव्यापारेणार्थं गृह्णन् भ्रान्तो भवेत् ! अतो ज्ञेयवदेकस्यापि [G.932] ज्ञानस्यानन्तवस्तुगताकारोपग्रहेणोत्पत्तेरनन्तं वस्तु तेन व्याप्तमित्युच्यते। येनैव चात्मना ज्ञानात्मनि भावाः समारोहन्ति,तेनैव तत्पृष्ठभाविपरामर्शचेतसा परिच्छिद्यन्ते। न च सार्वज्ञचेतसि परिमितभेदानुगताः समारोहन्ति भावाः, किं तर्हि ? यावत् किञ्चिदस्तित्वमनुभवति तत् सर्वमेव समारोहति। सर्वस्यैव सर्वज्ञानोपादानं १. प्रच्युतत्त्वस्यापि-पा०।
२. ०भासमेव-पा०।
३. निरुक्तावभास०-गा० । ४. निरुक्तमेवाव०-गा। .
५-५. स्याद्विचित्र-पा०,गा०। ६-६. अस्वभूता-गा०। ७. ०ज्ञानसमङ्गित्वाद्-जै०, ०ज्ञानसङ्गित्वा-पा०।
८-८. भ्रान्त-पा०,अभ्रान्त-गा। ९. मुख्येनार्थे- जै०।
१०. प्रत्यालम्बनभावो०-०।।