________________
७८६
तत्त्वसंग्रहे अत्र केचित् स्वयूथ्या एव विज्ञानवादिमतमुपोद्वंलयन्तश्चोदयन्ति-"यदि युगपदेकज्ञानक्षणेन अविशेषं ज्ञेयमण्डलं व्याप्यते', तदा भावानामियत्ताऽपरिच्छेदादानन्त्यमभ्युपेतं बाध्येत । तथा हि-एकज्ञानारूढाद् भावादन्यो भावो नास्तीत्येवं परिच्छिद्यमानाः कथमन्तवन्तो न भवेयुः । आह च
'एकज्ञानसमारूढान्नान्यो भावोऽस्ति कश्चन।
इयन्त इति विज्ञानादन्तवन्तः . . . . . . . . . . . . . ।' ( )इति, ततश्च क्रमपक्षे यो दोषः स युगपज्ज्ञानपक्षेऽपि" इति; तदेतदसारम्; यदि तावन्निरकारविज्ञानवादिमतमाश्रित्य चोद्यते, तदा सर्वमसङ्गतम्। तथा हि-यावत् किञ्चिद्वस्तुजातं. [G.930] सत्तामनुभवति, तस्य सर्वस्य सत्तामात्रेण सर्वज्ञचेतसा परिच्छदात् तेन तव्याप्तमिति व्यपदिश्यते, न तु पटेनेव घटानां देशपर्यन्ततया व्याप्तेः । न चैकेन ज्ञानेन परिच्छिन्नानीत्येतावता वस्तूनामात्मस्वभावहानिः, येन तान्येकज्ञानपरिच्छेदवशादनन्तत्वमात्मस्वभावं जह्यः । न हि नीलपीतादयो भावा बहवो युगपच्चित्रास्तरणादिष्वेकज्ञानक्षणावसीयमानतनघोऽनेकत्वं जहति, नापि परस्परमन्वाविशन्ति; अपि तु यथेव सन्ति तथैव ज्ञानेन परिच्छिद्यन्ते, नान्येन रूपेण। तद्वत् सत्त्वभाजनलोकोऽपि यथैव सत्तामनुभवति तथैव सर्वज्ञचेतसा गृह्यते। अपर्यन्तश्च दिक्षु विदिक्षु सत्त्वादिलोकोऽवस्थित, इत्यपर्यन्ततया तस्य ग्रहणम्, न तु पर्यन्तवर्त्तितयेति कुतोऽन्तवत्त्वप्रसङ्गः!
स्यादेतत्, सकलग्रहणाभ्युपगमे कथं पर्यन्तग्रहणं न स्यादिति? नैतदस्ति; को पत्र प्रतिबन्धः-यत्र साकल्यग्रहणं तत्रावश्यं पर्यन्तग्रहणमिति। तथा हि-यावन्तस्ते सन्ति भावाः, तेषां मध्ये नैकोऽपि सर्वज्ञज्ञानाविदितस्वरूपः सत्तामनुभवति; अपि तु सर्व एव सर्वज्ञचेतसा विदितस्वरूपा एवोदयन्ते व्ययन्ते च, नैकोऽपि परित्यक्त इत्ययं सकलग्रहणस्यार्थः । इयमेव च तेषामेकज्ञानेन व्याप्तिः; अन्यथा सकलशब्दवाच्यत्वमपि तेषां नाङ्गीकर्त्तव्यं मा भूदन्तवत्त्वप्रसङ्ग इति यत्किञ्चिदेतत्। '
यच्चोक्तम्-एकज्ञानारूढाद् भावादन्यो नास्तीत्येवं परिच्छेदात् कथमन्तवन्तो न भवेयुरिति? तदप्यसम्यक्; न हि निराकारज्ञानवादिपक्षे ज्ञानात्मनि भावानामारोहणमस्ति, अपि तु सत्तामात्रेण तेन निवेद्यन्ते । नापि भावानां ज्ञानापरिच्छेद्यस्वभावतयाऽनन्तत्वमभ्युपेतम्, येन ज्ञायमानतया तेषामन्तवत्त्वं प्रसज्येत; किन्तु देशवितानापर्यन्ततयाऽनन्तो भाजनलोकः, सत्त्वलोकस्तु सङ्ख्यानापर्यन्ततयापि। न च देशावष्टम्भाय पर्यन्तत्वे सति ग्राह्यविरोध: कश्चिद्, येनाग्राह्यता भवेत् । यदि पर्यन्ततया न संगृह्णाति, कथं सर्वज्ञः स्यादिति चेद् ? अत एव। यत एवासौ पर्यन्ततया न गृह्णाति तत एव सर्वज्ञो भवति; अन्यथाऽनन्तं वस्त्वन्तवत्त्वेन गृह्णन् भ्रान्तो भवेत् । तथा हि-यदस्ति तदस्तित्वेन, यन्नास्ति तन्नास्तित्वेन गृह्णन् सर्वविदुच्यते। न च सत्त्वभाजनलोकस्य पर्यन्तोऽस्ति । तस्मात् पर्यन्तमविद्यमानमविद्यमानंतया गृह्णन्, सर्वज्ञज्ञानपरिच्छेदकृतं तु पर्यन्तं विद्यमानं विद्यमानतया पश्यन् कथमसर्वज्ञो नाम !
१. विशेष-जै०, पा०। ५. इत्यपर्यन्तया-पा०।
२. व्याघाते-पा०। ६. ०ऽसति-गा०।
३. भावनानि यत्ना०-जे०, पा०। ४. ०ज्ञानं-पा०। ७ पर्यन्तं गमनकृतमविद्यमानतया- जै०, पा०॥