________________
७८५
अतीन्द्रियार्थदर्शिपरीक्षा भुजङ्गः-धूर्तः ॥ ३६१९-३६२० ॥ यच्चोक्तम्-"युगपच्छुच्यशुच्यादि" (तत्त्व० ३२४८) इत्यादि, तत्राह
युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम्।
ज्ञानमेकधिया दृष्टं न विरुद्धा विदा हि ते॥३६२१॥ यद्यपि भावाः केचित् परस्परं विरोधिनः, तथापि ते विदा-ज्ञानेन सहाविरुद्धा एव; युगपदेकेनापि ज्ञानेन विरुद्धानेकार्थग्रहणोपलम्भात् ।। ३६२१ ॥ एतदेव स्पष्टयन्नाह
अन्योऽन्यपरिहारेण स्थितलक्षणतोऽथ वा। एकस्मिन्न सहस्थानं विरोधस्तेषु सम्भवेत्॥३६२२॥ एकज्ञानावभासित्वं न तु तेषां विरोधिता।
शुच्यशुच्यहिशिख्यादेश्चक्षुषा सकृदीक्षणात्॥३६२३॥ द्विविध एव हि भावानां विरोध:- परस्परपरिहारस्थितलक्षणता, सहानवस्थानता च। तत्र ये परस्परपरिहारेण स्थितलक्षणाः, तेषामैक्यं विरुद्धम्। ये तु [G.929] सहानवस्था- . यिनः, तेषामेकदेशावस्थानं विरुद्धम्। न चैकविज्ञानभासनादेषामैक्यम्,एकदेशत्वं वा प्रसज्येत । तेन नैकविज्ञानभासित्वेनैषां विरोधः। दृष्टं च विरुद्धानामपि सतामेकज्ञानभासनम्, यथा शुच्यशुचिनोश्चक्षुर्ज्ञानेन परस्परपरिहारस्थितलक्षणयोरहेर्मयूरस्य च सानवस्थायिनोर्युगपद् ग्रहणम्। आदिशब्देन छायातपादीनां ग्रहणम्। यदि तर्हि विरुद्धानामप्येकज्ञानावभासनमविरुद्धम् ॥ ३६२२-३६२३॥
एवं सति सुखदुःखयो रागद्वेषयोरेकज्ञानभासनं प्राप्नोति? इत्याशङ्कयाह- सुखदुःखादिभेदे तु यत् संकृन्नास्ति वेदनम्।
हेत्वभावादसान्निध्यात् तज्ज्ञेयं न विरुध्यते॥३६२४॥ तज्ज्ञेयमिति । यत्सुखादीनां सकृदवेदनम्, तत् कारणाभावेनानुत्पत्तेरसन्निहितत्वात् सुखादीनां विरुद्धत्वादित्येवं ज्ञेयम्, वोद्धव्यमित्यर्थः । एतदुक्तं भवति–कारणवैकल्यादसान्निध्यं तत्र कारणम्, न परस्परविरोध इति ॥ ३६२४ ॥
येषां च वास्तवो विरोधः न तु शुच्यशुच्यादिवत् कल्पनाकृतः, तेषामप्येकज्ञाने भासनमस्तीति दर्शयति
नीलपीतावदातादिरूपभेदाविरोधिनः ।
देशप्रकृतिभेदेन वीक्ष्यन्ते युगपद् यतः॥३६२५॥ देशप्रकृतिभेदेन विरोधिन इति सम्बन्धः । तत्र देशभेदः-तदतद्देशत्वम्। प्रकृतिभेद:-नीलपीतादिस्वभावत्वम्, यद्वा नीलाधुपादानकारणत्वम् ॥ ३६२५ ॥ यच्चोक्तम्-"भूतं भवद्भविष्यच्च" (तत्त्व०३२४९) इत्यादि, तत्राह
एकज्ञानक्षणव्याप्तनिःशेषज्ञेयमण्डल: । . प्रसाधितो हि सर्वज्ञः क्रमो नाश्रीयते ततः ॥ ३६२६ ।। १. तत्-पा०; न तु-गा।
२. ०भेदेऽपि-जै०. पा० ।