________________
७८४
तत्त्वसंग्रहे
यस्य बाधा प्रमाणाभ्यामणीयस्यपि नेक्ष्यते ॥ ३६१३ ॥ यच्चात्यन्तपरोक्षेऽपि पूर्वापरविबाधितम् । करुणादिगुणोत्पत्तौ सर्वपुंसां प्रयोजकम् ॥ ३६१४ ॥ सर्वाकारधरोपेतं सद्वृत्तप्रतिपादकम् । इहामुत्र च भव्यानां विविधाभ्युदयावहम् ॥ ३६१५ ॥ सर्वांनुशयसन्दोहप्रतिपक्षाभिधायकम्
1
निर्वाणनगरद्वारकपाटपुरभेदि
च ॥ ३६१६ ॥
तच्चेत् क्रीडनशीलानां रक्षसां वा वचो भवेत्। त एव सन्तु सम्बुद्धाः सर्वतल्लक्षणस्थितेः ॥ ३६१७ ॥ न हि नामान्तरक्लृप्तौ वस्तुरूपं निवर्त्तते । विशिष्टेऽशिष्टसंज्ञां तु कुर्वन् निन्द्यः सतां भवेत् ॥ ३६१८ ॥ यदि हि नृत्यगीतहिंसागम्यगमनादेः तत्कर्तव्यतया तत्रोपदेशः स्यात्, तदा क्रीडाद्यभिरतपिशाचादिकार्योपलम्भात् तासां तत्प्रणीतत्वं सम्भावनापथमवतरेत्; यावता प्रमाणाविरुद्धमपरस्परपराहतमार्यजनोचितम् - करुणादिगुणेषु नियोजयितृ स्वर्गापवर्गफलवाहकमेतद् भगवतो वचनमित्युपपादितमेतत् । तदीदृशं कथं क्रीडनशीलस्य पिशाचादेः सम्भाव्यते ! यदि तथाभूतवचनप्रणेतृणामपि भवता पिशाचं इति नाम क्रियते, कामं क्रियताम्, न हि नामकरणे वस्तुस्वभावहानिः । किन्तु भवानेव विशिष्टे भगवत्यशिष्टव्यवहारं कुर्वन् सतां निन्द्यतामापद्येतेति समासार्थः ।
अवयवार्थस्तूच्यते ' — सम्भिन्नालाप:- गीताद्युपदेशः । हिंसा:- प्राणिवधः । कुत्सितार्थः=काममिथ्यचारादिः ।
[G.928] प्रमाणद्वयम्=प्रत्यक्षानुमाने, ताभ्यां संवादः = तदविरुद्धार्थता, सोऽस्यास्तीति तत्तथोक्तम्। मतमिति निश्चितम् । तद्विषयेऽखिल इति प्रमाणद्वयविषये । प्रमाणद्वयसंवादीति सम्बन्धः । सद्वृत्तम्=आदिमध्यान्तेकल्याणं बह्मचर्यम्। सर्वानुशयसन्दोहः दृग्भावनाहेयक्लेशौघः। तल्लक्षणस्थितेरिति सम्बुद्धलक्षणस्थितेः ॥ ३६११-३६१८ ॥
यथोक्तम्
'अभिज्ञातमभिज्ञेयं भावनीयं च भावितम् । प्रहातव्यं प्रहीणं च तेन बुद्धो निरुच्यते ॥" ( ) इति ॥ वेदस्यैव क्रीडाशीलपिशाचादिप्रणीतत्वं युक्तं सम्भावयितुम्, येन गोसवादिष्वगम्यगमनादयोऽसमाचाराः सम्प्रकाशिता इत्येतदर्शयन्नाह -
""
काममिथ्यासमाचारप्राणिहिंसादिलक्षणाः ।
असभ्यस्तु क्रिया येन वचसा सम्प्रकाशिताः ॥ ३६१९ ॥ तद् भुजङ्गपिशाचादिप्रणीतमिति शङ्कयते । तच्चेष्टाभिरतानां हि तादृक् सम्भाव्यते वचः ॥ ३६२० ॥
*१. नृणामपि - पा०; गा० । २. ०तूच्येते- गा० । ३. ० क्लेशौघात् जै० । ४. निरुध्यते- पा० ।