________________
अतीन्द्रियार्थदर्शिपरीक्षा
७८३ तत इत्यादि। अत्राप्यभिधीयते -'भवत्येवमागमाभावः, कोऽत्र विरोधः, न हि भवताऽसौ ब्रुवाणः समुपलब्धः, येन दृष्ट इति विरोधः स्याद्'-इत्येवं [G.926] पृष्टेन त्वया सामर्थ्यादिदमभिधानीयम्-न मया स्वयमागमस्य तत्प्रणीतत्वमुपलभ्य तस्य वक्तृत्वं प्रसाध्यते, किं तर्हि ? भवद्भिरेवागमस्य तत्प्रणीतत्वमिष्टम्, तच्च भवतां नोपपद्यते, यदि तस्य वक्तृत्वं नेष्येत । तस्मादवश्यमागमस्य तत्प्रणीतत्वमिच्छद्भिर्वक्तृत्वमपि तस्येष्टव्यम्-इत्येवमनिष्टापादनं प्रसङ्गेन क्रियत इति ।। ३६०१-३६०४॥ एवं प्रसङ्गसाधनत्वं समर्थ्य साम्प्रतं प्रकृतार्थानुरूप्यानभिधानं योजयित्माह
यद्येवमीदृशो न्यायः प्रसिद्धो न्यायवादिनाम्। प्रसङ्गसाधने धर्मः श्रद्धामात्रात् परैर्मतः॥३६०५॥ युक्तिप्रसिद्धतायां च स्वतन्त्रं साधनं भवेत्। ईदृशश्च परेणेष्टस्तत्प्रणीतः । स आगमः॥३६०६॥ सम्भारावेधतस्तस्य पुंसश्चिन्तामणेरिव। निःसरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥३६०७॥
आधिपत्यप्रपत्त्याऽतः प्रणेता सोऽभिधीयते। विकल्पानुगतं तस्य न वक्तृत्वं प्रसज्यते॥३६०८॥ वयमश्रद्दधानास्तु ये युक्तीः प्रार्थयामहे।
इतीदं गदितं तस्मात् प्रसङ्गार्थमजानता॥३६०९॥ य एव हि धर्मः परेणागममात्रादभ्युपेतः, स एव प्रसङ्गसाधने-ऽभिधीयत इति न्यायः । तत्र यदि परेण वक्तृत्वानुगमेन तत्प्रणीतत्वमागमस्येष्टं स्यात्, तदा भवेद्वक्तृत्वाभावादागमस्यातत्प्रणीतत्वप्रसङ्गः; यावताऽऽधिपत्य मात्रेणासौ तस्यागमस्य प्रणेताऽभ्युपगतः, न वक्तृत्वोपगमात् । अतो यत्तत्प्रणीतागमोपगमेव वक्तृत्वापादनम्, तत्प्रसङ्गार्थानभिज्ञेन भवताभ्यधायि ॥ ३६०५-३६०९।। . यच्चेदमुक्तम्-“कुड्यादिनिःसृतानाम्" (तत्त्व० ३२४३) इत्यादि, तत्राह
कुड्यादिनिःसृतानां च कस्मान्नाप्तोपदिष्टता।
तदाधिपत्यभावेन यदा तासां प्रवर्त्तनम्॥३६१०॥ यदि हि तदाधिपत्येन तासां देशनानां न स्यात् प्रवृत्तिः,तदाऽऽप्तोपदिष्टता न भवेत्। [G.927] यदा तु तदाधिपत्येन ताः प्रवर्तन्त इत्युपगतम्, तदा किमिति तदुपदिष्टत्वमासां न भवेत् ॥ ३६१०॥ यच्चोक्तम्-"विश्वासश्च स तासु स्यात्' (तत्त्व० ३२४३) इति, तत्राह
सम्भिन्नालापहिंसादिकुत्सितार्थविवर्जिताः । क्रीडाशीलपिशाचादिप्रणीताः स्युः कथं च ताः॥३६११॥ सम्भिन्नालापहिंसादिकुत्सितार्थोपदेशनम् । क्रीडाशीलपिशाचादिकार्यं तासु न विद्यते॥३६१२॥ प्रमाणद्वयसंवादि मतं तद्विषयेऽखिले।