________________
७८२
तत्त्वसंग्रहे
सम्भवोऽस्ति । नच सर्वज्ञस्य विकल्पसम्भवः; तस्य प्रहीणाशेषक्लेशविशेषाद्यावरणत्वात् विकल्पस्य च प्रकृत्या भ्रान्तत्वात्। तत्समुदाचारे भ्रान्तः प्राप्नोति सर्वविदिति ॥ ३५९६ ॥ नैवमित्यादिना प्रतिविधत्ते
नैवम्; क्लिष्टो हि सङ्कल्पस्तस्य नास्त्यावृतिक्षयात्।
जगद्धितानुकूलस्तु कुशलः केन वार्यते!॥ ३५९७॥ द्विविधो हि विकल्पः-संक्लेशाद्यनुकूलतया क्लिष्टः, अलोभादिसम्प्रयोगसमुत्थानतया कुशलः । तत्र यः क्लिष्टः, स प्रहीणक्लेशाद्यावरणानां नास्त्येव; कारणाभावात् । यस्तु कुशलः, स प्रहीणावरणस्याप्यविरोधीति तेन भगवतां कृपाभ्यासप्रवर्त्तितो जगद्धितोदयानुकूलतया कुशलो विकल्पः सम्मुखीभवन् केन वार्यते ! ॥ ३५९७॥
स्यादेतत्-सर्वस्यैव विकल्पस्य प्रकृत्या स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेर्धान्तत्वात् [G.925] प्रहीणज्ञेयावरणस्य तत्समुदाचारो विरुद्ध एव?-इत्याशङ्क्याह
न च तस्य विकल्पस्य सोऽर्थवत्तामवस्यति। तं हि वेत्ति निरालम्बं मायाकारसमो ह्यसौ॥३५९८॥ मायाकारो यथा कश्चिनिश्चिताश्वादिगोचरम्। .
चेतो निर्विषयं वेत्ति तेन भ्रान्तो न जायते॥३५९९ ॥ यदि हि तस्य विकल्पस्याविषयस्य विषयवत्तां गृह्णीयात्, तदा भ्रान्तो भवेद्; यावता मायाकारवदसौ तज्ज्ञानविषयतयैवागच्छतीति कथं भ्रान्तो भवेत् ! ।। ३५९८-३५९९ ॥ यदुक्तम्-"इत्यादि कीर्त्यमानं तु श्रद्दधानेषु शोभते." (तत्त्व० ३२२४) इति, तत्राह--
इत्यादि कीर्त्यमानं तु श्रद्दधानेषु शोभते।
प्रकृतार्थानुरूपेण प्रोक्तं नैतद् द्विजातिना॥३६००॥ कथम्, किं तत्प्रकृतम्, यदनुरूपमेतन्न भवति? इत्याह
तथाऽव्याप्तश्च सर्वार्थैः · शक्तो नैवोपदेशने। इत्येतत् प्रकृतं ह्यत्र तत्र चाहुमहाधियः॥३६०१॥ तस्योपदेशने शक्तिर्न स्याच्चेत् किं तदा भवेत् ? ततो भवद्भिर्वक्तव्यम्-आगमो न भवेदिति॥३६०२॥ तत्राप्याहुर्भवत्वेवं किं दृष्टोऽसौ त्वया वदन्। प्रसङ्गसाधनेनदमनिष्टं चोद्यते यदि॥३६०३॥ न चेद् वक्तृत्वमिष्येत नागमोपगमो भवेत्।
तत्प्रणेतागमेष्टौ तु तस्य वक्तृत्वमिष्यताम्॥३६०४॥ एतच्च प्रसङ्गसाधनं मयोक्तं न स्वातन्त्र्येणेत्येवं स्ववाचैव परोऽभिधास्यतीति मन्यमानः प्रसङ्गसाधनत्वमेव तावदस्य प्रकृतस्य समर्थयितुमाह-तत्र चाहुरित्यादि । यदेतद् भवतोक्तम्सर्वार्थव्यावृत्तस्योपदेशने शक्तिर्न प्राप्नोतीति, अत्र तावद् भवान् प्रष्टव्यः-'मा भूदुपदेशने तस्य शक्तिः, कोऽत्र दोष आपद्यते?' इति । एवं पृष्टस्य परस्योत्तरं स्वयमेवाविष्करोति--
१ तत्राप्यभि०-पा०, गा०।