________________
अतीन्द्रियार्थदर्शिपरीक्षा
७८१
केन ग्रन्थेनोपपादितम्? इत्याह
निःशेषार्थपरिज्ञानसाधने विफलेऽपि हि।
सुधियः सौगता यत्नं कुर्वन्तीत्यादिना पुरा॥३५९१॥ किञ्च-नास्माभिः सर्वज्ञोक्तत्वमवगम्य तदनुष्ठानाय सर्वज्ञः प्रसाध्यते, किं तर्हि ? ये सार्वज्ञपदप्राप्तीच्छवस्तदर्थं दोषपक्षो गुणोत्कर्षाय प्रसाध्यते; यतो वस्तुबलप्रवृत्तानुमानत एव सौगताः पुरुषार्थेषु घटन्ते, न प्रवादमात्रेण । प्रमेयत्वादीनां च यथा साधनत्वं भवति तथा प्रतिपादितमेव।
___ यच्चोक्तम्- "दशभूमिगतः" (तत्त्व० ३२३७) इति, तदपि सिद्धान्तानभिज्ञेन भवतोक्तम्। न हि दशभूमिगतो भगवानिष्यते, किं तर्हि ? बोधिसत्त्वावस्थाऽसौ यावद्दशभूमी:, तत ऊर्ध्वं बुद्धभूमिरिष्यते ॥ ३५९१ ॥
यच्चोक्तम्-"एकदेशज्ञगीतं तन्न स्यात् सर्वज्ञभाषितम्" (तत्त्व० ३२३९) इति, तदपि प्रतिविहितमेवेति दर्शयन्नाह
एकदेशज्ञगीतं तु न स्यात् सर्वज्ञभाषितम्।
इत्यत्रापि पुरा प्रोक्तं सर्वज्ञानान्वयादिति॥३५९२॥ एतदेव पुनरपि प्रतिपादयन्नाह
यथैवेष्टादिकानर्थान् अनुभूयाल्पदर्शनः । चेतस्यारोप्य तान् पश्चात् प्रवक्त्यनुभवाश्रयान्॥३५९३॥
न च तद्वचनं तस्य तद्वस्तुज्ञानजन्म न।
• एवं सर्वज्ञवाक्यं स्याद्धेतुभेदाम् तु भिद्यते॥३५९४॥ [G.924] अल्पदर्शन इति अग्दिर्शनः, असर्वज्ञ इति यावत्। तद्वस्तुज्ञानजन्मेति । तस्योष्णादेर्वस्तुनो ज्ञानमनुभवः, तद्वस्तुज्ञानं ततो जन्मोत्पत्तिर्यस्य वचनस्य-तत् तथोक्तम्। न नेति प्रतिषेधद्वयेन तद्वस्तुज्ञानजन्मैवं भवतीति दर्शयति। एवमिति। तदपि तद्वस्तु ज्ञानजन्मतया प्रमाणम्। यद्येवम्, को विशेषोऽल्पदर्शनवचनाद् बुद्धवचनस्य। इत्याह-हेतुभेदात्तु भिद्यत इति ॥ ३५९३-३५९४॥ . एतदेव स्पष्टयति
समस्तवस्तुविज्ञानमस्य कारणतां गतम्।
किञ्चिन्मात्रार्थविज्ञानं निमित्तं तस्य तु स्थितम्॥३५९५॥ अस्येति बुद्धवचनस्य। तस्य त्विति एकदेशज्ञवचनस्य॥ ३५९५ ॥ विकल्पेत्यादिना परश्चोदयति
विकल्पासम्भवे तस्य विवक्षा ननु कीदृशी।
प्रहीणावरणत्वाद्धि' विकल्पो नास्य वर्त्तते?॥३५९६॥ न ह्यसम्भवद्विकल्पस्य विवक्षा सम्भवति; तस्या विकल्पविशेषत्वात् । अतोऽसौ विकल्पत्वेन व्याप्ता सती तद्भावे कथमवस्थां लभेत ! न हि वृक्षाभावे शिंशपायाः १.बोधिसत्त्वावस्थां- पा०, गा०। २. प्रहीणाचरणत्वात्– गा०। ३. तदभावे-गा०। ४. कल्पस्य- गा० ।