________________
७८०
तत्त्वसंग्रहे ___ अत एव वेदादीनामयुक्तिकत्वमवेत्य मन्वादिभिराज्ञांसिद्धत्वमात्मवचनेषूक्तमिति दर्शयति
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम्। आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥३५८३॥ मन्ये तेनैव दत्तेयं जडेभ्यस्तैर्विभीषिका।
'आज्ञासिद्धत्वमन्यत्र वाङ्मात्रात् किं नु वा भवेत्॥ ३५८४॥ पुराणं नाम शास्त्रम्। मानवो धर्म इति मनुना विरचितः। साङ्गो देद इति सह व्याकरणादिभिः षड्भिरङ्गैर्वर्त्तत इति साङ्गः। चिकित्सितमिति चिकित्साशास्त्रम्।
तेनैवेति कारणेन। नियुक्तिकत्वमेषां पुराणादीनां भवतां च जाड्यमवधार्येति यावत्। अत्रैवोपपत्तिमाह -आज्ञासिद्धत्वमन्यत्रेत्यादि ॥ ३५८३-३५८४॥
बुद्धास्तु भगवन्तश्चतुर्वैशारद्यसमन्वागततया नैवासिद्धत्वमात्मवचनेषु समादिशन्ति, अपि तु पर्षदि सिंहनादं सम्यगेव नदन्तीति दर्शयति'
यैः पुनः स्वोक्तिषु स्पष्टं युक्तार्थत्वं विनिश्चितम्। . तत् प्रत्यायनसामर्थ्यमात्मनश्च महात्मभिः ॥ ३५८५॥ कुतीर्थ्यमत्तमातङ्गमदग्लानिविधायिनम् ।
एवमस्याखिलत्रासाः सिंहनादं नदन्ति ते॥३५८६॥ यैरित्यादि । कुतीर्थ्या एव मत्तमातङ्गाः, तेषां मदग्लानिं विधातुं शीलं यस्य सिंहनादस्य स तथोक्तः। एवमिति वक्ष्यमाणम् ॥ ३५८५-३५८६॥ कः पुनरसौ सिंहनादः? इत्याह
"तापाच्छेदाच्च निकषात् सुवर्णमिव पण्डितैः।
परीक्ष्य भिक्षवो ग्राह्यं मद्वचो न तु गौरवात्" ॥ ३५८७॥ अपि च-भगवद्भिरेव परमार्थब्राह्मणेभ्य: कृतमुपदेशनम्, न मन्वादिभिरित्येतदाह
ये च वाहितपापत्वाद् ब्राह्मणा: पारमार्थिकाः। अभ्यस्तामलनैरात्म्यास्ते मुनेरेव शासने॥३५८८॥ इहैव श्रमणस्तेन चतुर्धा परिकीर्त्यते।
शून्याः परप्रवादा हि श्रमणैर्ब्राह्मणैस्तथा॥३५८९॥ [G.923] "वाहितपापधर्मत्वाद ब्राह्मणाः" इति निरुक्तिः । ते चेहैव नैरात्म्याभ्यासोपदेशान्मुनेर्भगवतः शासने युक्ताः, नान्यत्र; पापक्षयोपायविकलत्वात्। अतएव भगवतोक्तम्"इहैव श्रमणः, इहैव ब्राह्मणः, शून्याः परप्रवादाः श्रमणैाह्मणैः" ( ) इति । तत्र चत्वारः श्रमणाः फलस्था स्रोतआपन्नादयः । ब्राह्मणा अपि तत्प्रतिपन्नकाश्चत्वार एव ॥३५८८-३५८९ ॥ "नरः कोऽप्यस्ति" (तत्त्व० ३२२९) इत्यादावाह
नरः कोऽप्यस्ति सर्वज्ञ इत्याद्यपि न साधनम्।
प्रतिज्ञान्यूनतादोषदुष्टमित्युपपादितम् ॥३५९०॥ १. ०सिद्धत्वमुक्त०-०। २-२. पाठोऽयं पा०, गा० पुस्तकयोनास्ति। ३. श्रोत आपन्नादय:- गा० ।