________________
अतीन्द्रियार्थदर्शिपरीक्षा
७७९ भवेद् भवतां वैशिष्टयम्, अन्यथा लुब्धककैवर्तचर्मकारादिब्राह्मणस्येव सत्यपि ब्राह्मणजातियोगे कथमिव वैशिष्ट्यं सिध्येत् ॥ ३५७४-३५७६ ।। [G.921] द्वितीयेऽपि पक्षे दोषमाह
जातकर्मादयो ये च प्रसिद्धास्ते तदन्यवत।
आचाराः सावृतास्ते हि कृत्रिमेष्वपि भाविनः॥३५७७॥ तदन्यदिति । कृत्रिमाभिमतब्राह्मणेष्विव। सांवृताइति। नामकरणादिवत् सांव्यवहारिकाः । तृतीयेऽपि पक्षे न युक्तो मदः, न हि ब्राह्मणब्राह्मणीशरीराणां शूद्रादिशरीरतः शुक्रशोणिताद्यशुचिमयत्वेन कश्चिद्विशेषोऽस्तीत्युक्तमेतत् ॥ ३५७७॥
अपि च-सन्दिग्धमेव भवतो ब्राह्मणपितृकत्वमित्यतोऽपि न युक्तो मद इत्यादर्शयन्नाह
अतीतश्च महान् कालो योषितां चातिचापलम्। तद् भवत्यपि निश्चेतुं ब्राह्मणत्वं न शक्यते॥३५७८॥
अतीन्द्रियपदार्थज्ञो न हि कश्चित् समस्ति वः। .. त्वदन्वयविशुद्धिं च नित्यो वेदोऽपि नोक्तवान्॥३५७९॥
कालान्तरेण कदाचिदब्राह्मणगोत्रकोऽपि सन् भवान् ब्राह्मणः संवृत्त:२–इत्यपि सम्भाव्यते । सत्यपि ब्राह्मणपूर्वत्वे भवतो मातृचारित्रदोषेण जारजातत्वमपि सम्भाव्यत एव। तथा हि–प्रायेण योषितो मन्मथातुराश्चपलचेतसः स्वकुलव्रतसीमानमतिपत्यापि वर्तमाना: समुपलभ्यन्ते । न चातीन्द्रियार्थदर्शी भवद्भिः कश्चिन्नरोऽभ्युपेयते यतो निश्चय: स्यात् । नापि वेदो निवेदयति भवतोऽन्वयशुद्धिम्॥ ३५७८-३५७९ ॥
. किञ्च-म केवलं भवतामात्मन्यपरिनिश्चितब्राह्मण्यानां जातिमदावलेपो न युज्यते, अपि च-मन्वादीनामप्यविदितद्विजातीनां द्विजातिभ्य एवोपदेशो मोहादिति दर्शयति
.. अतो मन्वादयोऽप्येषामविज्ञातद्विजातयः। ... नोपदेशं प्रयच्छेयुर्द्विजेभ्यस्तदनिश्चयात्॥३५८०॥
अविज्ञाता: =अनिश्चिता द्विजातयो येषां ते तथोक्ताः । तदनिश्चयदिति तेषां द्विजातीनामनिश्चयात् ।। ३५८० ॥
. अपि च-मन्वादिभिरस्मभ्यमेवोपदेशनं कृतमिति नैतद् भवतां महत्त्वकारणम्, अपि तु परं जडत्वमेव सूचयतीति दर्शयन्नाह
नियुक्तिकत्वं वेदार्थे ज्ञापनाशक्तताऽऽत्मनि। वेदाधीतिजडा विप्रा न परीक्षाक्षमा इति॥३५८१॥ कुतश्चिनिश्चितं शङ्के नूनं मन्वादिभिस्ततः।
विप्रेभ्य एव वेदादेः कृतं तैरुपदेशनम्॥३५८२॥ [G.922] वेदाधीतिजडाइति । वेदाधीत्या कृता जडा वेदाधीतिजडाः । वेदाध्ययनेन दूरीकृतवस्तुबोधशक्तय इति यावत्। कुतश्चिदिति हेतोः ॥ ३५८१-३५८२ ॥ १. संवृता०- जै०। २. सांवृत-पा०, गा०। ३. अविदिता— जै०। ४. पा०, गा० पुस्तकयो स्ति।