________________
७७८
तत्त्वसंग्रहे ये हि लोभभयद्वेषमात्सर्यादिवशीकृताः।
प्रादेशिकी भवेत् तेषां देशना निःकृपात्मनाम् ॥३५६९॥ या पुनर्भगवतामाकुमारं देशना, सा तेषां माहात्म्यमेवोद्भावयतीति दर्शयति
करुणापरतन्त्रास्तु स्पष्टतत्त्वनिदर्शिनः । सर्वापवादनिःशङ्काश्चक्रुः सर्वत्र देशनाम्॥ ३५७०॥ यथायथा च मौादिदोषदुष्टो भवेजनः। तथातथैव नाथानां दया तेषु प्रवर्त्तते॥३५७१॥ नैवावाहविवाहादिसम्बन्धो वाञ्छितो हि तैः। ...
उपकारस्तु कर्त्तव्यः साधुगीतमिदं ततः॥३५७२ ॥ [G.920] ऊढाया योषितो भर्तृगृहागमनम् आवाहः ॥ ३५७०-३५७२ ॥ . किं तद् गीतम्? इत्याह
"विद्याचरणसम्पन्ने ब्राह्मणे गवि हस्तिनि। .. - शुनि चैव श्वपाके च पण्डिताः समदर्शिनः"॥३५७३॥ .
__(भ० गी० ४.३९) अपि च-भवतैव 'मूर्खशूद्रेभ्यः' इत्यतिप्रकटमुच्चैरसद्भूतजातिमदोद्धतेन चेतसा ब्रुवता स्फुटतरमात्मन एव प्रकटितमिह विद्वज्जनसदसि महामौर्यम् । तथा हि-कदाचिद् ब्राह्मणत्वाख्यं सामान्यं नाम वस्त्वन्तरमस्तीत्येवमुपकल्पयन्तस्तत्रभवन्तो विप्रा गर्वार्बुदमुद्वहन्ति? यद्वा जातकर्मादिभिः संस्कृतत्वमात्मनः समीक्ष्य? ब्राह्मणपितृकृतां चात्मनो ब्राह्मणीगर्भप्रसूतिमालम्ब्य? तत्र प्रथमे पक्षे केवलमाकाशकुशेशयमण्डनमेतद् भवतामिति दर्शयति
शतशः प्रतिषिद्धायां जातौ जातिमदश्च किम्। तदन्यातिशयासिद्धौ विशिष्टा सा च किं मता.॥३५७४॥ वशित्वादिगुणाधाराः प्रक्षीणाशेषकल्मषाः। सर्वेऽप्यत्राविशेषेण सद्योगे च विजातयः॥३५७५॥ भवेयुर्यदि सिध्यन्ति विशिष्टास्तत्समाश्रयाः।
वैशिष्टयमन्यथा नैव लुब्धकद्विजजातिवत्॥३५७६ ॥ अपि च भवतु नाम सा जातिः, तथापि तत्कृतमाश्रयस्य यदि वैशिष्ट्यमुपलभ्येत तदा स्याद्भवतां गर्वः, यावता किञ्चिदतिशयं पश्याम इत्यादर्शयति-तदन्येत्यादि। तेभ्यो ब्राह्मणेभ्यो-ऽन्यस्तदन्यः-शूद्रादिः, तस्मादतिशयः, तस्यासिद्धिरिति विग्रहः। तथा हिशूद्रादिभ्यो न प्रज्ञामेधादिभिर्विण्मूत्रमांसशोणितादिभिश्च विप्राणामतिशयमुपलभामहे, तत् कथमतिशयासिद्धौ सत्यां सा तदाधारजातिर्विशिष्यते, येन भवता जातिवादावलेपोद्धतेनैवमभिधीयते–'वेदवादिभ्य एव तं प्रयच्छेयुर्यथा मन्वादयः' इति । यदि तु ब्राह्मणजातिसमाश्रयेण भवन्तः प्रकृत्यैव वशित्वेशित्वप्राकाम्यकरुणादिगुणाधाराः प्रहीणाशेषदुरिता भवेयुः, तदा