________________
अतीन्द्रियार्थदर्शिपरीक्षा
৩৩৩ शक्यम्, किमुत देशकालव्यवस्थिते पुंसि। एवम्भाव इति। नायं सर्वज्ञ इत्येवं निश्चयस्य। अथ मा भूदसिद्धता हेतोरित्यात्मासर्वज्ञतया शेषासर्वज्ञनिश्चयोऽभ्युपगम्यते, तदातिप्रसङ्गादनकान्तिकतेत्यादर्शयन्नाह-आत्मासर्वज्ञता दृष्टावित्यादि। आत्मन्यसर्वज्ञताया दृष्टिरिति विग्रहः ।
स्यादेतत्-सर्वधर्मसाधनं क्रियमाणं दृष्टेन प्रज्ञादिभेदेन बाध्यत इत्यतस्तस्य साधनं क्रियते, तत् त्वसर्वज्ञत्वं साध्यमानं 'केनचिद् बाध्यत इत्यतोऽतिप्रसङ्गो न भविष्यतीति? तदेतदसम्यक्; यथैव दृष्टबाधं साध्यं हेतुर्न साधयति, तथा शङ्कयमानबाधमपीत्यतो बाधाशङ्का बाधादृष्टेर्न भिद्यते; तेनासर्वज्ञत्वसाधनमपि मा भूद्; आशङ्कयमानबाधत्वात् ।। ३५६१-३५६३ ।। यच्चोक्तम्- "उपदेशो हि बुद्धादेरन्यथाप्युपपद्यते" (तत्त्व० ३२२२) इत्याह
स्वर्गापवर्गमार्गोक्तिरनवद्या प्रसाधिता।
बुद्धानां तां जडात् कोऽन्यो व्यामोहादभिमन्यते॥३५६४॥ अन्यथोपपन्नत्वमुपदेशस्यासिद्धम्। न हि स्वार्गपवर्गमार्गस्य निरवद्य उपदेशो व्यामोहात् सम्भवति । निरवद्यत्वं च भगवद्वचनस्य सर्वाभिः परीक्षाभि: प्रसाधितम्। जडदिति कुमारिलात्। स एव यदि परं मन्यत इत्यर्थः ॥ ३५६४॥ "शिष्यव्यामोहनार्थं वा" (तत्त्व० ३२२४) इत्यत्राह
दृष्टेऽप्यभ्युदयं चित्तदोषशान्तिं परां तथा।
ततश्चाप्नुवतां तेन परं व्यामोहनं कृतम्॥३५६५॥ [G.919] दृष्ट इति अस्मिन्नेव जन्मनि । अभ्युदयम्=नित्यारोग्यैश्वर्यादिलक्षणम् । अवाप्नुवतामिति सम्बन्धः। दोषशान्ति चेति। रागादिदोषोपशमम्। ततः=मन्त्रध्यानसमयाभ्युपदेशात् तत्कृताद् यथाविहितानुष्ठानादाप्नुवतां शिष्याणां परं व्यामोहनं कृतमित्यतिशयोक्तिरियम्। यदीदृशं व्यामोहं भवान् मन्येत, तदा भवानेव व्यामूढः स्यादव्यामोहमेवं व्यामोहमिति गृह्णन् ॥ ३५६५ ॥
"यद्यसौ वेदमूलः स्यात्" (तत्त्व० ३२२५) इत्यत्राह.. वेदमूलं च नैवेदं - बुद्धानामुपदेशनम्।
निष्कलङ्कं हि तत् प्रोक्तं सकलङ्कं श्रुतौ पुनः॥३५६६॥ न हि निष्कलङ्कमुपदेशनं सकलङ्कमूलं युक्तम् ॥ ३५६६ ॥ "यतस्तु मूर्खशूद्रेभ्यः" (तत्त्व० ३२२६) इत्यत्राह
स्वार्थसंसिद्धये तेषामुपदेशो न तादृशः। आरम्भः सकलस्त्वेष परार्थं कर्तुमीदृशः॥ ३५६७॥ तस्माजगद्धिताधानदीक्षिताः करुणात्मकाः।
अनिबन्धनबन्धुत्वादाहुः सर्वेषु तत् पदम्॥३५६८॥ पदमिति । सर्वगुणसम्पत्प्रतिष्ठार्थेनाभ्युदयनिःश्रेयसमार्ग:पदमुच्यते ॥ ३५६७-३५६८॥
यैस्तु मन्वादिभिर्वेदवादिभ्य एवोपदेशनं कृतम्, तेषामेव व्यामोहार्थं तत् सम्भाव्यत इति दर्शयति१. न क्रियते- गा०। २. न केनचिद्-गा०। ३-३. ०मार्गोक्ति निरवद्या प्रसाधिताम्-पा०, गा० ।