________________
७७६
तत्त्वसंग्रहे __ यच्चोक्तम्-"नित्येऽपि चागमे वेदे" (तत्त्व०.३२०९) इति, तत्राह
गुणकर्मेश्वरादीनां वेदानां चापहस्तिता।
नित्यताऽतश्च नास्माभिनित्य आगम इष्यते॥ ३५५६॥ सर्ववस्तुव्यापिनः क्षणभङ्गस्य प्रसाधनान्न कस्यचिन्नित्यमस्तीति सर्वमेतदसङ्गतमुक्तम् ॥ ३५५६॥ यच्चोक्तम्-"सर्वज्ञसदृशः" (तत्त्व० ३२१४) इत्यादि, तत्राह
उपमानेन सर्वज्ञसत्तासिद्धिर्न चेष्यते। तस्याप्रमाणताप्रोक्तेः सत्तासिद्धिस्ततो न च॥३५५७॥ प्रसिद्धायां हि सत्तायां सादृश्यं गम्यते ततः।... साधनं प्रकृतं चेद सत्तायाः सर्ववेदिनः ॥३५५८॥
तत्रोपमानतः सिद्धिः प्रतिषेधोऽफलः कृतः। . . न ह्यपमानस्य प्रामाण्यमस्ति, येन ततः सर्वज्ञसिद्धिमभिवाञ्छेद् बौद्धः। सत्यपि, वा प्रमाण्ये तस्य सत्तासिद्धावनुपयोग एव। तथा हि-प्रसिद्ध धर्मिणि गवादौ गवयादि-साधर्म्यमात्रं तेन साध्यते । न च सर्वज्ञो धर्मी प्रसिद्धः; तस्यैव भवन्मतेन साध्यत्वात् । तेन भवन्मत्या सर्वज्ञसत्तायां साध्यत्वेन प्रस्तुतायामुपमानस्य प्रसङ्गाभावात् तत्प्रतिषेधोऽनर्थकः; प्राप्त्यभावात्। प्राप्तिपूर्वकत्वात् प्रतिषेधस्येति भावः ॥ "नरान् दृष्ट्वा त्वसर्वज्ञान्" (तत्त्व० ३२१५), इत्यादावाह
नरा दृष्टास्त्वसर्वज्ञाः सर्वे चेद भवता ततः ॥ ३५५९॥ तवैव सर्ववित्ता स्याद् दूरव्यवहितेक्षणात्।
अन्यसन्तानसम्बद्धज्ञानशक्तेश्च दृष्टितः॥३५६०॥ यदि हि सर्व एव नरा दृष्टा भवता, तदा सर्वज्ञप्रतिषेधे स्ववचनव्याघातः। तथा हि-दूरव्यवहिताशेषनरदर्शनाभ्युपगमादन्यसन्तानसम्बन्धिज्ञानशक्तिनिश्चयाभ्युपगमाच्वात्मनि सर्वज्ञत्वं [G.918) स्फुटतरमेवाभ्युपेतं स्यात्; देशकालस्वभावविप्रकृष्टार्थदर्शनाभ्युपगमात्। न ह्यसर्वज्ञस्यैवं परिज्ञानं सम्भवेत्। तत्प्रतिषेधाय च साधनोपादानात् तदेव प्रतिषिध्यत इति स्ववचनव्याघातः, यथा-माता मे वन्ध्येति ॥ ३५५९-३५६० ॥ असिद्धता च हेतोरिति दर्शयन्नाह
पुर:स्थितेऽपि पुंसि स्यात् कथं तत्र विनिश्चयः। नायं सर्वज्ञ इत्येवम्भावेऽतीन्द्रियविद् भवान्॥ ३५६१॥ आत्मासर्वज्ञतादृष्टौ शेषासर्वज्ञनिश्चये। अतिप्रसङ्गोऽजाद्यादेः सर्वेषामपि निश्चयात्॥ ३५६२॥ बाधादृष्टेर्न चेत् सर्वधर्मनिश्चय इष्यते। .
बाधाशङ्का ननूक्तेऽपि बाधादृष्टेर्न भिद्यते॥३५६३॥ तथा हि पुरोऽवस्थिते पुंसि शरीरमात्रदर्शनान्नायं सर्वज्ञ इत्येवमसर्वविदा निश्चेतुम
२. सर्वज्ञमपि-पा०; सर्वज्ञस्यापि— गा० ।
१. तत:-गा०।