________________
-७७५
अतीन्द्रियार्थदर्शिपरीक्षा बुद्धानामिष्यतेऽस्माभिर्निर्माणं 'तु तथा मतम् ॥३५४९॥ [G.916) नरकप्रेततिर्यग्देवमनुष्यभेदेन पञ्चगत्यात्मकः संसारः, तद्बहिर्भूताश्च बुद्धा भगवन्त इत्यसिद्धं मर्त्यत्वमेषाम्। कथं तर्हि शुद्धोदनादिकुलोत्पत्तिरेषां श्रूयते? इत्याह-निर्माणं तु तथा मतमिति ॥ ३५४९॥ एतदेवागमेन संस्पन्दयन्नाह
अकनिष्ठे पुरे रम्ये शुद्धावासविवर्जिते।
बुध्यन्ते तत्र सम्बुद्धा निर्मितस्त्विह बुध्यते॥३५५०॥ अकनिष्ठा नाम देवा'; तेषामेकदेशे शुद्धावासकायिका नाम देवा:२,अत्र हि आर्या एव शुद्धा आवसन्ति । तेषामुपरि माहेश्वरभवनं नाम स्थानम्, तत्र चरमभविका एव दशभूमिप्रतिष्ठिता बोधिसत्त्वा उत्पद्यन्ते । इह तु तदाधिपत्येन तथा निर्माणमुपलभ्यत इत्यागमः ॥ ३५५० ॥ नास्माकमिदं सिद्धमिति चेद् ? आह
स्वातन्त्र्येण तु मर्त्यत्वं त्वया निश्चीयते कथम्। परकीयागमद्वारान - तस्यैवमवस्थितेः॥३५५१॥ न च तत्स्पर्धयाऽस्माभिस्ते सर्वज्ञा इतीष्यते।
आकाशकुसुमैः को हि स्पर्द्धा सत्येषु कल्पयेत्॥३५५२॥ यदि हि स्वातन्त्र्येण मर्त्यत्वं भवतोपादीयते, तदा सन्दिग्धासिद्धता। न हि भगवतो मर्त्यत्वप्रसाधकं किञ्चिद् भवतः प्रमाणमस्ति, येन स्वातन्त्र्येण मर्त्यत्वं सिद्धं भवेत्। तस्मात् परकीयागमद्वारेण त्वया मर्त्यत्त्वं वक्तव्यम्, स च परस्यागम एवम् यथोक्तरूपं स्थित इत्यसिद्धमेषां मर्त्यत्वम्॥ ३५५१-३५५२॥ कथमाकाशकुसुमप्रख्यत्वमेषां सिद्धम् ? इत्याह- .
. सर्वशक्तिवियोगेन नीरूपत्वं हि साधितम्। . नित्यानां तेन नो सन्ति परेष्टास्त्र्यम्बकादयः॥३५५३॥
परेण हि शङ्करादयो नित्यत्वेनेष्टाः । नित्यानां च क्रमाक्रमाभ्यामर्थक्रियाविरोधात् सर्वसामर्थ्यरहितत्वं प्रसाधितम् । सर्वसामर्थ्यविरहलक्षणं चासत्त्वमिति परेष्टास्त्र्यम्बकादयो नित्या न सन्त्येव-इत्याकाशकुसुमप्रख्यत्वमेषां सिद्धमेव । त्र्यम्बक: शङ्करः ॥ ३५५३॥
किञ्च-सन्तु नाम त्रयम्बकादयः तथाप्यतिनिकृष्टतया तेषाम्, न भगवतां तैः सह स्पर्धा क्रियतेऽस्माभिरित्यादर्शयन्नाह
किञ्च-तेषां विपर्यस्तं ज्ञानमात्मादिदर्शनात्। बुद्धानां त्वविपर्यस्तं विस्तरेणोपपादितम्॥ ३५५४॥ तत्स्पर्धा क्रियते तैस्तु न दूरान्तरभावतः।
को हि तैमिरिकैः स्पर्धा कुर्यात् स्वस्थेक्षणे नरे॥३५५५ ॥ [G.917] सुबोधम् ॥ ३५५४-३५५५ ॥ १-१. तत्तथा०- पा०, गा०। २-२. पा०, गा०, पुस्तकयो स्ति।
३. देशा:-गा।