________________
७७४
तत्त्वसंग्रहे जायते, आहोस्विन्न-इति पक्षद्वयम् । तत्र प्रथमे पक्षे युगपदशेषं तद्विषयं न प्राप्नोति ॥ ३५४०३५४२॥
यच्चोक्तम्-"एतदेव हि तज्ज्ञानं यद्विशद्धात्मदर्शनम्'' (तत्त्व० ३२०६) इति, तत्राह
ग्राह्यलक्षणवैधुर्याद् विस्तरेण च साधितात्। नैतदेव हि तज्ज्ञानं यद् विशुद्धात्मदर्शनम् ॥ ३५४३ ॥ अथापि ज्ञानरूपत्वमात्मनोऽभ्युपगम्यते। दृश्यदर्शननानात्वाभावानैवमपि ग्रहः ॥३५४४॥ स्वयम्प्रकाशरूपत्वं तज्ज्ञानस्येष्यते । यदि। ..
स्वसंवित्तिस्तदा प्राप्ता प्रत्यक्षा च मतिर्भवेत्॥३५४५ ॥ [G.915] यदि तावदात्मा जडरूपोऽभ्युपगम्यते, तदा तद्विषयं ज्ञानमविशुद्धमेव; प्रकृत्या सर्वज्ञानानां ग्राह्यग्राहकवैधुर्यस्य बहिरर्थपरीक्षायां प्रसाधितत्वात् । अथ चिद्रूप आत्मेति पक्षः; तदापि दृश्यदर्शनयोरभेदाद् ग्राह्यग्राहकभावानुपपत्तेस्तद्विषयं ज्ञानमिति न स्यात्, भेदे हि विषयविषयिणोर्विषयविषयिभावः स्यात् । अथ प्रदीपवत् प्रकाशतयाऽऽत्मविषयत्वमस्याभ्युपगम्यते, तदा स्वसंवित्तेरनभिमतायाः प्रसङ्गः स्यात्, ज्ञानस्य चाप्रत्यक्षत्वमिष्टं व्याहन्येत। तद् दर्शयति-प्रत्यक्षा च मतिर्भवेदिति ॥ ३५४३-३५४५ ॥ . यदुक्तम्-"अथापि वेददेहत्वाद्' (तत्त्व० ३२०७) इत्यादि ? तत्राह
ब्रह्मादीनां च वेदेन सम्बन्धो नास्ति कश्चन। भेदान्नित्यतयाऽपेक्षावियोगाच्च तदन्यवत्॥३५४६॥ ततश्च वेददेहत्वं ब्रह्मादीनामसङ्गतम्।। सर्वज्ञानमयत्वं च वेदस्यार्थाविनिश्चयात्॥ ३५४७॥ स्वातन्त्र्येण च सम्बुद्धः सर्वज्ञ उपपादितः।
न पुनर्वेददेहत्वाद् ब्रह्मादिरिव कल्प्यते॥३५४८॥ सम्बन्धे सति ब्रह्मादीनां वेददेहत्वं भवेत्, न च वेदेन सार्धं ब्रह्मादेः सम्बन्धोऽस्ति। तथा हि-तादात्म्यतदुत्पत्तिलक्षणो द्विविध एव सम्बन्धो भावानामिति प्रतिपादितम्, तत्र भेदाभ्युपगमान्न तादात्म्यसम्बन्धः । नापि तदुत्पत्तिः; द्वयोरपि नित्यत्वेनानुपकार्यतया परस्परमपेक्षाया अभावात्। सर्वज्ञानमयत्वं च वेदस्येति। असङ्गतमिति प्रकृतेन सम्बन्धः । कस्मात्? अर्थानिश्चयात्। विनिश्चिते ह्यर्थे वेदस्य सर्वज्ञानमयत्वं कल्पयितुं युक्तम्, स च भवन्मत्या न सम्भवतीत्यावेदितमेतत् । न च भवद्भिरिवास्माभिर्वेदद्वारेण सर्वज्ञोऽभ्युपगम्यते, किं तर्हि ? स्वयम्भुज्ञानत्वात् स्वयमेव भगवान् सर्वज्ञ इति प्रतिपादितमेतत् ।। ३५४६-३५४८ ॥
यच्चोक्तम्-'क्व च बुद्धादयो माः " (तत्त्व० ३२०८) इति, तत्र मर्त्यत्वं भगवतोऽसिद्धम्-इति दर्शयन्नाह- .
____ पञ्चगत्यात्मसंसारबहिर्भावान्न मर्त्यता। ११. यदि शुद्धात्म.- पा०. गा० ।
२.नानात्वभावाल-पा०, गा०।