________________
७७३
अतीन्द्रियार्थदर्शिपरीक्षा ननु च तत्रात्मज्ञानं स्ववेदनात्मकं वर्णितम्, न त्वन्तर्व्यापारपुरुषज्ञानम्, तत् कथं सिद्धसाध्यता भवति? इत्याह
एतदेव हि तज्ज्ञानं यद् विशुद्धात्मदर्शनम्। .
आगन्तुकमलोपेतचित्तमात्रत्ववेदनात् ॥३५३४॥ चित्तमात्रवेदनमेव कथं सिद्धमिति चेद्? आह
अवेद्यवेदकाकारा बुद्धिः पूर्वं प्रसाधिता। द्वयोपप्लवशून्या च सा सम्बुद्धैः प्रकाशिता॥३५३५॥ संसारानुचितज्ञानास्तेन सिद्धा महाधियः।
यदाधिपत्यभाविन्यो भासन्तेऽद्यापि देशनाः॥३५३६॥ पूर्वमिति बहिरर्थपरीक्षायाम्। संसारानुचितमननुकूलं ज्ञानं येषां ते तथोक्ताः ॥ ३५३५३५३६॥
काः पुनस्तास्तदाधिपत्यभाविन्यो देशनाः श्रूयन्ते? इत्याह-प्रकृत्या भास्वरइत्यादि श्लोकद्वयम्
प्रकृत्या भास्वरे चित्ते द्वायाकारकलङ्किते। द्वयाकारविमूढात्मा कः कुर्यादन्यथामतिः ॥ ३५३७॥ द्वयनैरात्म्यबोधे च स्त्र्यादिसङ्कल्पभाविनः।
रागद्वेषादयो दोषाः संक्षीयन्तेऽप्रयत्नतः॥३५३८॥ [G.914] द्वयाकाराविमूढात्मेति प्रहीणग्राह्यग्राहकाभिनिवेशः।
द्वयनैरात्म्यबोध इति पुद्गलधर्मेरात्म्यबोधे। यद्वा-द्वयम्=ग्राह्यं ग्राहकं च, तस्य नैरात्म्यम्=नैःस्वाभाव्यमिति विग्रहः ॥ ३५३७-३५३८॥
इदं तत् परमं तत्त्वं तत्त्ववादी जगाद यत्। . सर्वसम्पत्पदं चैव केशवादेरगोचरः॥३५३९॥ । केशवादेरगोचरइति । केशवः हरिः । आदिशब्दे नेश्वरादिपरिग्रहः ॥ ३५३७-३५३९ ॥ अत केशवादेरपि विशुद्धमात्मदर्शनं कस्मान्नेष्यते? इत्याह. ज्ञायते हि स्थिरात्माऽन्यैःशुद्धस्फटिकसन्निभः।
स च तेषां विपर्यासो नित्यात्मप्रतिषेधनात्॥३५४०॥ आत्मग्राहि च विज्ञानमात्मनो यदि जायते। ततः सर्वात्मविज्ञानं युगपत् सम्प्रसज्यते॥३५४१॥ अथ तस्मान्न जायेत नित्यं वाभ्युपगम्यते।
तदा तद्विषयं न स्यात् पुरुषान्तरचित्तवत्॥३५४२॥ अन्यैरिति केशवदिभिः । आत्मपरीक्षायामात्मनो निरस्तत्वात् तद्विषयं ज्ञानं विपर्यस्तत्वादविशुद्धम्। किञ्च-यदेतन्नित्यात्मविषयं तेषां ज्ञानमुपवर्ण्यते, तत् किं तत आत्मनो १. स्ववेदात्मकं-पा०।
.. २. ०दन्यथामतिम्-पा०, गा०। । ३. ०सम्पत्प्रदं-पा०, गा०।
४. नै:स्वभाव्यमिति-पा०, गा०।