________________
७७२
तत्त्वसंग्रहे
__ वेदवाक्यानां हि नित्यतया स्वातन्त्र्ये सति न ततो वेदार्थनिश्चयो जायते, न ह्ययं वेदः–'अयं ममार्थो नान्यः' इत्येवं विरौति। नापि प्रतिपत्तुः स्वत: आत्मनः परस्माद व्याख्यातुरर्थनिश्चयो भवति; सर्वेषामेव भवन्मत्या मोहादिभिर्विप्लुतत्वात्। तेनाग्निहोत्रादिवाक्याद् भगवान् सर्वज्ञ इत्ययमप्यर्थ:सम्भाव्यत एव। का प्रमेति नैव काचित् ॥ ३५२५-३५२६ ।
यच्चेदमपरमुक्तम्-"न च सर्वनरज्ञानज्ञेयसंवादसम्भवः' (तत्त्व० ३१९४) इति तत्राह
स्वर्गापवर्गमात्रस्य विस्पष्टमुपदेशतः। प्रधानार्थपरिज्ञानात् सर्वज्ञ इति गम्यते॥३५२७॥ समुद्रसिकतासङ्ख्याविज्ञानं वोपयुज्यते। "
तस्यास्माकमतोऽन्यार्थज्ञानसंवेदनेन किम्!॥ ३५२८॥ यच्चोक्तम्-"गोणत्वेनैव वक्तव्यः सोऽपि' (तत्त्व० ३१९९) इति, तत्राह
गौणत्वेनैव वक्तव्यः सोऽपि मन्त्रार्थवादवित्। ' इत्ययं नियमः सिध्येत् सर्वज्ञे तु निराकृतेः॥ ३५२९॥ पूर्वोक्तबाधकायोगे साधिते तु सविस्तरम्।
सन्दिग्धो गौणनियमो मुख्यार्थस्यापि सम्भवात्॥ ३५३०॥ यदि हि प्रमाणेन सर्वज्ञो निरस्तः स्याद्, तदान्यथानुपत्त्या गौणार्थत्वमस्य नियत स्यात्, नान्यथा; मुख्यार्थत्वस्यापि सम्भाव्यमानत्वात्। न च नित्यस्य वचसोऽर्थवादत्वं युक्तम् अन्याभिप्रायदेशना ह्यर्थवादः, न चाभिप्रायरहिते वचसि विवक्षामन्तरेण सा युक्ता ॥ ३५२९. ३५३०॥ "यद्वा प्रकृतधर्मादिज्ञानाद्" (तत्त्व० ३१९९) इत्यादावाह___धर्मादिगोचरज्ञानमात्राप्रतिघता' यदि।
सफला वर्ण्यते व्यक्तं तंदा बुद्धैर्जितं जगत्॥ ३५३१॥ |G.913। कथं जितम् ? इत्याह
यस्मादभ्युदये मोक्षे सहैतै साधिते' पुरः।
ज्ञानमप्रतिघं तेषामावैणिकमतिस्फुटम्॥३५३२॥ पूर्वं हि भगवतो निः श्रेयसज्ञानमप्रतिघं साधितमित्यतो भगवत एवाऽऽवैणिकमसाधारणं धर्मादिज्ञानमिति स्ववाचैव सर्वज्ञोऽनभ्युपेतः स्यात् ।। ३५३२ ।।
यच्चोक्तम्- "यद्वाऽऽत्मन्येव विज्ञानम्" (तत्त्व० ३२०४) इति, तत्रापि भगवत्येव तथाविज्ञानसम्भवान्न किञ्चिदनिष्टमापादितमित्यादर्शयन्नाह
यच्चात्मन्येव विज्ञानं ध्यानाभ्यासप्रवर्तितम्।
तस्याप्यप्रतिघातित्वं तेषा पूर्वं प्रसाधितम्॥३५३३॥ तस्यापति आत्मज्ञानस्य। तेषामिति बुद्धानां भगवताम्। पूर्वमिति "यावद् यावद्गुण.घोऽस्याम्" (तत्त्व० ३४३३) इत्यादिना ॥ ३५३३ ॥ १.साधित-पा०. गा।
२.सर्वज्ञो नाभ्युपेत.-पा०, सर्वज्ञो अब्युपेत:- गा० ।