________________
अतीन्द्रियार्थदर्शिपरीक्षा
तत्परे स्यादनित्यत्वं कस्मान्नाश्यर्थसङ्गतेः ॥ ३५२१ ॥
[G.911] कस्मादिति पृष्टः सन् पर आहकारणादनित्यत्वं प्राप्नोति ॥ ३५२१ ॥
॥३५२२ ॥
- नाश्यर्थसङ्गतेरिति । नाशिनार्थेन सङ्गतेः सम्बन्धात्
यद्येवमित्यादिनानैकान्तिकत्वमुद्भावयति— यद्येवम्,
आज्यनीवारचामीकरजटादयः ।
अनित्याः कथमुच्यन्ते तेन नित्यात्मना सता ॥ ३५२२॥ आज्यम्=घृतम्। नीवारः = व्रीहिविशेषः । चामीकरजट: - अग्निः । तेनेति वेदेन
जातिरित्यादिना परस्योत्तरमाङ्कते -
जातिस्तत्रापि नित्या चेन्ननु साऽपि निराकृता ।
तन्मात्रवचने वाचो न चाज्यादौ मतिर्भवेत् ॥ ३५२३ ॥ तस्यापि वचने वाचो नित्यता किं न हीयते !
७७१
तत्राज्यादौ जातिरस्ति सा शब्दवाच्या, तेनातिप्रसङ्गो न भविष्यतीति ? तदेतदसम्यक्; सामान्यपरीक्षायां जातेर्विस्तरेण निराकृतत्वात् । भवतु वा जातिः, तथाप्याज्यादिशब्दाज्जातिमात्राभिधायिनो व्यक्तौ प्रत्ययो न प्राप्नोति, ततश्च व्यक्तिसाध्यार्थक्रियार्थिनो जात्यभिधानमन`र्थकमेव स्यात् । नान्तरीयकतया व्यक्तिः प्रतीयत इति चेत् ? न; प्रतीतिविप्रकर्षाभावात् । न हि शब्दादनन्तरं जातौ प्रथमतरमुपजायते मतिः, पश्चान्नान्तरीयकतया व्यक्तिप्रतीति:, किं तर्हि ? अव्यवधानेनेनैवार्थक्रियाकारिपदार्थाध्यवसायो लोके शब्दादिति । यदि च जातिमेव शब्दोऽभिदधीत न व्यक्तिम्; तदा बलीवर्ददोहचोदनार्वदसम्बन्धाभिधायित्वमवगम्य प्रेक्षावान्नैव व्यक्तौ शब्दात् प्रवर्त्तेत । अथ मा भूदेष दोषप्रसङ्ग इति तस्याभिव्यक्तिरूपस्याभिधानमङ्गीक्रियते, तदा नित्यताहानिर्वेदस्य कथं न प्रसज्यते ।
किञ्च - भवतु नाम मुख्यतो जात्यभिधानं शब्दानां नान्तरीयकं तद्व्यक्त्यभिधानम्, तथापि सर्वस्य परस्याप्यागमस्य नित्यता न विरोधिनीति दर्शयति
सर्वज्ञेऽप्याकृतिर्वास्तु
तेन तत्परनित्यता ॥ ३५२४ ॥
सर्वज्ञेऽपीत्यादि । एकस्मिन्नपि हि सर्वज्ञेऽवस्थाभेदपरिकल्पितनानात्वेन जातिशब्दवाच्यत्वमुपपद्यते, किं पुनरपरिमितानादिसर्वज्ञपरम्परासु ॥ ३५२३-३५२४ ॥
[G.912] किञ्च – यदि नाम निमित्ताख्यं शाखान्तरं वेदत्वेन नाङ्गीक्रियते भवद्भिः, तथापि श्रुत्यनुक्तत्वं सन्दिग्धं भवत्यनेनैवेति दर्शयन्नाह
यदा च वेदवाक्यानां स्वातन्त्र्येणार्थनिश्चयः ।
वेदात् स्वतः परस्माच्च मोहादिविवशात्मनः ॥ ३५२५ ॥ तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतेः । जिनः सर्वज्ञ इत्येतं नार्थ इत्यत्र का प्रमा ॥ ३५२६ ॥
३. सर्वज्ञस्याकृति ० - जै० पुस्तके पाठा० ।
१. तस्यापि व्यक्ति० - गा० । २. ज्ञपरस्या०- गा० ।
२. तदा— पा०, गा० ।
५. स्वात्मन: पा०, गा० ।