________________
७७०
तत्त्वसंग्रहे अथ शाखान्तरं नेदं वेदान्तर्गतमिष्यते?। तदत्र न निमित्तं वो द्वेषं मुक्त्वाऽवधार्यते॥३५१४॥ स्वरादयश्च ते धर्माः प्रसिद्धाः श्रुतिभाविनः।।
कर्तुमत्रापि शक्यास्ते नरेच्छामात्रसम्भवात्॥ ३५१५॥ इदमिति निमित्ताख्यं शाखान्तरम्। तदत्रेत्यादिना प्रतिवधत्ते ॥ ३५१४-३५१५ ॥ नन्क्त्यिादिना परस्योत्तरमाशङ्कते
ननु नैवं परो' नित्यः शक्यो लब्धुमिहागमः।
___ नित्यश्चेदर्थवादत्वं तत्परे स्यादनित्यता॥३५१६॥ [G.910] एवम्पर इति सर्वज्ञप्रतिपादनपरः । कथं न शक्यों लब्धुम् ? इत्याह-नित्यश्चेत्यादि। यद्यसौ सर्वज्ञप्रतिपादनपर आगमो नित्यः स्यात्, तदा नियमेनार्थवादत्वम् अन्यार्थत्वमस्य द्रष्टव्यम् । अथार्थवादत्वं तस्य नेष्यते, तदा नियमादनित्यत्वमस्यापद्येत ॥ ३५१६ ॥ कस्मात् पुनर्नित्यत्वे सत्यर्थवादत्वमापद्यते? इत्याह- . .
आगमस्य हि नित्यत्वे सिद्धे तत्कल्पना वृथा।
यतस्तं प्रतिपत्स्यन्ते धर्मादेव ततो नराः॥३५१७॥ तत्कल्पनेति सर्वज्ञकल्पना। किमिति वृथा? इत्याह- यतइत्यादि। ततइति नित्यादागमात्॥ ३५१७॥ न खल्क्त्यिादिना प्रतिविधत्ते
न खल्वस्मिन् प्रसिद्धेऽपि वेदे नित्यत्वमस्ति यत्।
प्रयत्नानन्तरज्ञानक्रमिज्ञानादि तत्फलम्॥३५१८॥ यद्यप्ययमृगादिवेदः स्वरूपोऽतिप्रसिद्धः, तथाप्यस्य नित्यत्वमसिद्धम्। कथम्? इत्याह- यदिति यस्मादर्थे । यत्प्रयत्नान्तरज्ञान क्रमज्ञानफलं वा तदनित्यम्, यथा घटादि तथा च वेद इति स्वभावहेतुः । अस्य च श्रुतिपरीक्षायामसिद्धतादि विस्तरेण निरस्तमिति नात्राभिधीयते ॥ ३५१८॥
किन्त्वेतस्य प्रसिद्धस्य प्रामाण्योपगमे सति।
शाखान्तरेऽपि वेदत्वात् प्रामाण्यं ते प्रसज्यते॥३५१९॥ एतस्येति वेदस्य ॥ ३५१८-३५१९॥ शाखान्तरस्य वेदत्वमसिद्धमिति चेद् ? आह
ज्ञापनीयमवेदत्वं यद्वा युक्त्या ध्रुवं त्वया।
अन्यथाश्रुत्यनुक्तत्वं सन्दिग्धं तस्य ते भवेत्॥३५२०॥ अन्यथेति । यद्यवेदत्वमस्य न ज्ञाप्यते, तदा यत् त्वया श्रुतौ वेदे, अनुक्तत्वं तस्य सर्वज्ञस्योक्तम्, तत् सन्दिग्धासिद्धं भवेत् ।। ३५२०॥ यच्चोक्तम्- "तत्परे स्यादानत्यता' (तत्त्व० ३५१६) इत्यत्राह
नित्यत्वं चास्तु वेदस्य तत्परत्वं च तत्र तु। १-१. नैतत्परो-गा।
- ३-३. सित्कल्पना- पा०।
२. च-पा०, गा०/