________________
अतीन्द्रियार्थदर्शिपरीक्षा
७६९ इदानीं न सन्तीत्यतीतेऽपि ते काले नाभूवन्निति शक्यमनुमातुम् । अतो रामादिभिरनैकान्त्यादनैकान्तिकता हेतोः ॥ ३५०७॥ यच्चोक्तम्-"दृष्टो न चैकदेशोऽपि लिङ्गं वा" (तत्त्व० ३१८५) इत्यत्राह
प्रज्ञादीनां च धर्मित्वं कृत्वा लिङ्गमुदीरितम्।
'न नाम दृश्यते लिङ्गं न च सत्ता प्रसाध्यते ॥ ३५०८॥ "ये चासमानजातीय" इत्यादिना प्रज्ञादीनां धर्मित्वं विधाय लिङ्गमुदीरितम्, अतो लिङ्गं नास्तीत्येतदसिद्धम् । नापि सत्ता साध्यते, किं तर्हि ? प्रज्ञादीनामत्यन्त त्कर्षाख्यो धर्मः तदेव च सर्वज्ञत्वम्, अतः सत्तासाधनेऽपि ये दोषास्तेऽप्यत्र नावतरन्त्येव ॥ ३५०८ ।। "न चागमविधिः कश्चित्" (तत्त्व० ३१८६) इत्यादावाह
आगमेन च सर्वज्ञो नास्माभिः प्रतिपाद्यते।
लिङ्गे सति हि पूर्वोक्ते को नामागमतो वदेत्॥ ३५०९॥ न हि वस्तुबलप्रवृत्तानुमानसम्भवे सति कश्चिदिच्छामात्रानुविधायिनो वचनाद् वस्तुसिद्धिमन्विच्छेत्। अतो न वयमागमात् सर्वज्ञं साधयामः, किं तर्हि ? अनुमानात्। तच्च पूर्वोक्तमेव ।। ३५०९ ।। [G.909] न चाप्येतत्सिद्धम्-"न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधने " (तत्त्व० ३१८६) इति दर्शयन्नाह
किन्तु वेदप्रमाणत्वं यदि युष्माभिरिष्यते। तत् किं भगवतों मूढैः सर्वज्ञत्वं न गम्यते॥३५१०॥ .निमित्तनाम्नि सर्वज्ञो भगवान् मुनिसत्तमः।
शाखान्तरे हि विस्पष्टं पठ्यते ब्राह्मणैर्बुधैः॥ ३५११॥ तथा हि-निमित्तं नाम. शाखान्तरमस्ति, तत्र स्फुटतरमयमेव भगवान् शाक्यमुनिः सर्वज्ञः पठ्यते, तत्किमिति मूढैर्वेदं प्रमाणयद्भिरपि भवद्भिरसौ प्रतिक्षप्यते ॥ ३५१०-३५११॥ कथमसौ तत्र पठ्यते? इत्यादर्शयन्नाह- .
योऽसौ षड्दन्तमात्मानमवदातद्विपात्मकम्। स्वाने प्रदर्श्य सञ्जातो बोधिसत्त्वो गुणोदधिः ॥३५१२॥ विघुष्टशब्दः सर्वज्ञः कृपात्मा स भविष्यति।
प्राप्तामृतपदः शुद्धः सर्वलोकपितेति च॥३५१३॥ विधुष्टशब्द इति सकलजगत्प्रख्यातकीर्तिः । प्राप्तामृतपद इति प्राप्तसवासनाशेषक्लेशोपशमलक्षणनिर्वाणपद इत्यर्थः । शुद्ध इति अनाश्रवधातुमयः । एतावता भगवतोऽज्ञानप्रहाणलक्षणा स्वार्थसम्पत् परिदीपिता। परार्थसम्पदं दीपयन्नाह- सर्वलोकपितेति । पिता शास्ता। सर्वस्य जगतो ज्ञानत्रयसुगतिप्रतिष्ठापनात् ॥ ३५१२-३५१३॥
अथेत्यादिना परस्योत्तरमाशङ्कते१.. पा०, गा० पुस्तकयो स्ति। २-२. तन्नाम— गा०। ३. प्रसिध्यते- पा०। ४. तु-पा०. गा० । ५. लैड़े-पा०, गा०/
६-६. ०अस्ति इति-पा०, इति इति- गा० / ७ पितापि- पा०, गा० ।