________________
७६८
तत्त्वसंग्रहे
____तायिन इति भगवतो बुद्धस्य । यदि हि वेदस्यानित्यता सम्भवेत्, तदैवं स्याद्वक्तुम्'या च वेदस्य नित्यता' (तत्त्व० ३१८४) इति, यावता सैव न सिध्येत्; पूर्वं बाधकप्रमाणोपदर्शनात्। प्रतिपादितं तदेव च बाधकं स्मरयति- क्रमाक्रमविरोधत इति। एतच्च पूर्व व्याख्यातमेव ॥ ३५००-३५०१॥ - यच्चोक्तम्- 'सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः' (तत्त्व० ३१८५) इति,
तत्राह
दृश्यते न च सर्वज्ञ इदानीमिति किं त्वया !। अथ सर्वैरिति प्रोक्तं विस्तरेणेह दूषणम्॥३५०२॥ भावत्कोऽनुपलम्भो हि केवलो व्यभिचारवान्।.
सर्वान्यदृग निवृत्तिस्तु सन्दिग्धेति न साधनम्॥३५०३॥ इदं चापरमुक्तं कुमारिलेन-“निराकरणवच्छक्या न चासीदिति कल्पना" (श्लो० वा०, चो० सू० ११७) इति, तत्राह___ "निराकरणवच्छक्या न चासीदिति कल्पना''। '
(श्रो० वाव, चो० सू० ११७) इत्ययुक्तमतीतेऽपि . तन्निराकृत्ययोगतः॥ ३५०४॥ यथा किल निराकरणमतीते काले सर्वज्ञस्य शक्यते कर्तुम्, तथा 'आसीत् सर्वज्ञः' इति न कल्पना शक्यते कर्तुमिति? तदेतदयुक्तम्; अतीतेऽपि काले तस्य निराकरणायोगात्। अपिशब्दाद् भवद्भविष्यतोरपि कालयोन शक्यमिति दर्शयति, न ह्यदर्शनमात्रादभावगतिरिति पूर्वमुक्तम् ॥ ३५०४॥
स्यान्मतं यो व्यतीतोऽध्वा स शून्यस्तव दर्शिना । कालत्वात् तद्यथा कालो वर्तमानः प्रतीयते ?॥ ३५०५॥ सन्दिग्धव्यतिरेकित्वाद् युक्तमेतन्न साधनम्।
वर्तमानश्च कालोऽयं तेन शून्यो न निश्चितः ॥ ३५०६॥ [G.908] स्यान्मतमित्यादिना परोपन्यस्तं साधनमाशङ्कते । प्रयोगः-योऽयमतीतः कालः स सर्वज्ञशून्यः; कालत्वात्, साम्प्रतकालवत् । तत्र साध्यविपर्यये बाधकप्रमाणानुपदर्शनात् सन्दिग्धव्यतिरेकित्वमित्यतोऽनैकान्तिकता हेतोः। दृष्टान्तोऽपि सन्दिग्धधर्मत्वादिसिद्धः ॥ ३५०५-३५०६॥ भवतु वा दृष्टान्तस्य सिद्धिः, तथापि न दृष्टमात्रेणेष्टसिद्धिर्युक्तेति दर्शयन्नाह
हेतुसामग्रयभावाच्च भूतो नाम न सम्प्रति।
रामादिवदतीते तु काले केन न सम्भवेत्॥ ३५०७॥ क: पुनरत्र प्रतिबन्धो य इदानीं नास्ति सोऽतीतेऽपि काले नाभूदिति । न हि रामभरतादय १. वेदस्य नित्यता--पा०, गा० ।
२. स्मारयति-पा०, गा० ३. यत्-गा।
४. सर्वदर्शिना-पा०, गा०। . ५. तत्रापि-पा०, गा०।