________________
अतीन्द्रियार्थदर्शिपरीक्षा
७६७
नियमात् तत्त्वविद् याति निर्वाणमिति वा मृषा ॥३४९४॥ नाहमित्येवमिति। नाहमित्येवं दर्शनं न युक्तमित्यर्थः। यद्यहं नाम विद्यत इति । यद्यात्माऽस्तीत्यर्थः । तस्मात् तत्त्वविद् भवदीयो निर्वाणं यातीत्येतन्मृषा; यतोऽहङ्कारविगमान्मुक्तिरिष्टा, न चात्मनि विषयभूते स्थितेऽङ्कारनिवृत्तिर्युक्तेति कुतो मुक्ति: !॥ ३४९४ ॥ तस्मादित्यादिनोपसंहरति
तस्मादन्येषु तीर्थेषु दशाकुशलहानितः। लेशतोऽभ्युदयप्राप्तिर्यद्यप्यस्ति लघीयसी॥३४९५॥ अपवर्गस्य तु प्राप्तिर्न मनागपि विद्यते।
सत्त्वदृष्टिनिविष्टत्वात् क्लेशमूलानपोद्धृतेः॥३४९६॥ दशाकुशलहानित इति । प्राणातिपातादत्तादानकॉममिथ्याचारमृषावादपैशुन्यपारुष्यासम्भिन्नप्रलापाभिव्यापादमिथ्यादृष्टयो दशाकुशलाः। यद्वा-परेषामपरित्राणमदानमपरिचरणमसत्यमप्रियवचनमहितमस्वाध्याय: अश्रद्धा अदया स्पृहा चेति दशाकुशलानि पठ्यन्ते। तद्विपर्य-यात् कुशलानि दश। तेषामकुशलानां हानिः ततो विरतिः,दशकुशलानुष्ठानमिति यावत्। लघीयसीति । विपर्यासपूर्वकत्वात् तस्याः क्षिप्रतरं भ्रंशात् । क्लेशमूलं सत्त्वदृष्टिरेव ॥ ३४९५-३४९६॥ अभ्युदयहेतुत्वेनापि भगवट्ठचनस्य विशेष दर्शयति- .
दश "कर्मपथाः प्रोक्ताः शुभा ये तायिना पुनः ।
सम्यग्दृष्ट्युपगूढास्ते .बलवन्तो भवन्त्यलम्॥३४९७॥ बलवन्त इति स्थिरोदारफलत्वात् ॥ ३४९७॥ इतरेऽपि कस्माद् बलवन्तो न भवन्ति? इत्याह
. सत्त्वदृष्ट्युपगूढास्तु - विपर्यासानुषङ्गतः। • अविशुद्धास्ततः शुद्धं फलं तेभ्यो न जायते॥३४९८॥ . . तदेवं धर्मतत्त्वस्य देशके मुनिसत्तमे।
अपश्यतः स्वयं धर्ममिति कः स्वस्थधीर्वदेत्!॥३४९९॥ [G.907) परिशुद्धादेव हि कारणात् परिशुद्धं फलं जायते नाविशुद्धात्। मुनिसत्तम इति। मुनीनाम्=बाह्यशैक्ष्याशैक्ष्याणां मध्ये सत्तमः शोभनतम:६ मुनिसत्तमः ।। ३४९८-३४९९ ॥
यच्चोक्तम्-"सर्वज्ञत्वं च बुद्धादेर्या च वेदस्य नित्यता । तुल्ये जल्पन्ति" (तत्त्व० ३१८४) इत्यादि, तत्राह- ..
तायिनः सर्वविज्ञत्वं या च वेदस्य नित्यता। .. तुल्ये जल्पन्ति नो विज्ञा नित्यताया असम्भवात्॥३५००॥ .. तस्या हि बाधकं प्रोक्तं क्रमाक्रमविरोधतः।
विज्ञानादि न तत्कार्यं कथञ्चिदपि युज्यते॥३५०१॥ * १. युक्ति :-गा। २. विशिष्टत्वात्-पा०, गा०।
३. न अदया-जै। ४-४. वचनविशेष-पा०. गा० । ५. कर्मयथा-पा०।
६. शोभन:-पा०, गा० ।