________________
७६६
तत्त्वसंग्रहे तस्मिन्नसति तद्धेतुर्न पुनर्जायते भवः ॥ ३४९०॥ . तन्मूलइति सत्त्वदृग्मूलः । हेत्वभावदिति सत्त्वदर्शनाख्यस्य हेतोरभावात्। तस्मिन्निति क्लेशराशौ। तद्धेतुरिति क्लेशराशिहेतुः । न जायत इति। न हि कारणाभावेकार्यस्योत्पादो युक्तः; निर्हेतुकत्वप्रसङ्गात् ॥ ३४९० ॥
तदत्यन्तविनिर्मुक्तेरपवर्गश्च कीर्त्यते।
अद्वितीयशिवद्वारमतो नैरात्म्यदर्शनम्॥३४९१॥ तदत्यन्तविनिर्मुक्तिरिति । तेषां क्लेशानां तस्य वा पुनर्भवस्यात्यन्तं पुनरुत्पत्तितो विमुक्तिस्तदत्यन्तविनिर्मुक्तिः । यथाहुः-'तदत्यन्तविमोक्षोऽपवर्गः' (न्या०द०१.१.२२)इति॥
__ननु चान्यमतेष्वपि तत्त्वदर्शनं निःश्रेयसहेतुः, अभ्युदयहेतवश्च दश कुशलाः कर्मपथाः प्रोक्ताः, तत् कथं नैरात्म्यदर्शनमेवाद्वितीयं मोक्षद्वारमित्युच्यते? इत्याह
सर्वेषामपि तीर्थ्यानामहङ्कारनिवर्त्तनात्। .. मुक्तिरिष्टाऽऽत्मसत्त्वे च नाहङ्कारो निवर्त्तते॥३४९२॥ शक्तकारणसद्भावाद् विषयस्याप्यदूषणात्। ।
तदूषणे त्वभावेन विपर्यासः प्रसज्यते॥३४९३॥ तथा हि-अहङ्कारोद्भवत्वात् स्कन्धानां तन्निवृत्तौ मुक्तिरिति सर्वेषामेव मुमुक्षूणामत्राविवादः । सा चाहङ्कारनिवृत्तिरन्यतीर्थ्यानां न सम्भवतीति; वितथात्मदर्शनाभिनिविष्टत्वात् तेषाम्, अहङ्कारस्य चात्मदर्शनमूलत्वात्। तत्कथमयमात्मसत्त्वे आत्मसत्त्वाभिनिवेशे स्थिते सत्यविकलकारणे, स्वविषये चात्मन्यविदूषिते निवर्तेत । यथोक्तम्
'साहङ्कारे मनसि न शमं याति जन्मप्रबन्धो नाहङ्कारश्चलति हृदयादात्मदृष्टौ तु सत्याम्। अन्यः शास्ता जगति भवतो नास्ति नैरात्म्यवादी नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति मार्गः''।
) इति।
तथा हि-मनोधर्मा न कण्टकादिवदुत्कील्यापनेतव्याः, किं तर्हि ? यथाभूतविषयाभिनिवेशेन ते प्रवृत्ताः; तद्धेतुदूषणात्। विदूषयत्येवात्मानं योगीति चेद्? आह-तद्रूषणेत्यादि। तथा हि स विदूष्यमाणो नास्तीत्येवमभावाकारेण दूष्यः, अन्यथा तद्रूषणवैयर्थ्यं स्यात् । तथा हि-यदि सत्त्वेनात्मानमभिनिवेश्य दु:खहेतुत्वं तं दूषयेत्, तदाऽनर्थकमेव दूषणं स्यात्। त्यागार्थं हि तदूषणम्। न च स्वतो नित्यस्य स्वभावभूतस्य त्यागः सम्भवतीत्यतोऽनर्थकमेव तदापद्यते । न चाभावाकारेण [G.906] दूष्यस्तैरात्मा; आत्मनि सत्यासत्यत्वाभिनिवेशेन तेषां विपर्यासप्रङ्गात् ।। ३४९२-३४९३ ॥
किञ्च-भवतु नाम दुःखहेतुत्वादिनाऽन्येनाकारेण तस्य दूषणम्, तथाप्यात्मदर्शनमात्रप्रभवस्याहङ्कारस्य निवृत्तिर्न युक्तेति दर्शयन्नाह
न युक्तं नाहमित्येवं यद्यहं नाम विद्यते। ... १. कारणभावे-गा० ।
२. सम्भवति-पा०गा०।