________________
अतीन्द्रियार्थदर्शिपरीक्षा
७६५
तथा हि प्रसाधितमेतत् यथा भगवान् साक्षाद् धर्मं दृष्टवान्निर्दिष्टवांश्चेति। अतः, 'अपश्यतां स्वयं धर्मम्' इत्येतदसिद्धमिति भावः ॥ ३४८४ ॥
4
[G.904] स्यादेतत् —— धर्ममुक्तवान् सः' इत्येतदेव कथं सिद्धम् ? इत्याहयतोऽभ्युदयनिष्पत्तिर्यतो निःश्रेयसस्य च ।
स धर्म उच्यते तादृक्सर्वैरेव विचक्षणैः ॥ ३४८५ ॥
निःश्रेयसस्य चेति । यतो निष्पत्तिरिति सम्बन्धः । तत्र अभ्युदयः = सुखम्, मोक्षः = निःश्रेयसम्। स धर्म उच्यते तादृगिति । 'यतोऽभ्युदयनिः श्रेयससिद्धिः स धर्म:' (वै० द० १.१.२) इति वचनात् ॥ ३४८५ ॥
भवतु नामाभ्युदयनिःश्रेयससिद्धिहेतुर्धर्मः अस्य तु सुगतवचनस्य कथं तद्धेतुत्वं सिद्धम्, येनास्य धर्मज्ञत्वं भवेत् ? इत्याह
तदुक्तमन्त्रयोगादिनियमाद् विधिवत् कृतात् । प्रज्ञारोग्यविभुत्वादिदृष्टधर्मेऽपि '
जायते ॥ ३४८६ ॥
तेन भगवतोक्तस्यासौ मन्त्रायोगादिश्चेति विग्रहः । योग := समाधिः । आदिशब्देन मुद्रामण्डलादिपरिग्रहः । दृष्टधर्मेऽपीति । अस्मिन्नेव जन्मनि । न केवलं परलोक इत्यपिशब्देन दर्शयति ॥ ३४६८ ॥
एवमभ्युदयहेतुत्वमुपदर्श्य निःश्रेयसहेतुत्वं दर्शयन्नाह -
समस्तधर्मनैरात्म्यदर्शनात् तत्प्रकाशितात् ।
सत्कार्यदर्शनोद्भूतक्लेशौघस्य निवर्त्तनम् ॥ ३४८७ ॥
[G.905] जन्मप्रबन्धात्यन्तोपशमो हि सर्वेषामेव मोक्ष इतीष्टम्, तस्य च प्राप्तिहेतुर्भगद्वचनमेव; जन्महेतुक्लेशप्रतिपक्षभूतस्य नैरात्म्यदर्शनस्यात्रैवोपदेशात्, नान्यत्र । सर्वेषामेव चान्यतीर्थ्यानां वितथात्मदर्शनाभिनिविष्टत्वात् । अतो भगवद्वचनमेवाभ्युदयनिःश्रेयसप्राप्त्युपायभूतत्वाद् धर्मलक्षणं युक्तम्,नान्यत् । तेनैतदेव श्रेयोऽर्थिभिराश्रेयम्, नान्यदिति समुदायार्थः । अवयवार्थस्तूच्यते— सत्कार्यदर्शनोद्भूतत्वं क्लेशौघस्य कथं सिद्धम् ? इति चेदाह - आत्मात्मीयदृगाकारसत्त्वदृष्टिः प्रवर्त्तते । अहं ममेति माने च क्लेशोऽशेषः प्रवर्त्तते ॥ ३४८८ ॥
एतच्चास्माभिः पूर्वमेव व्याख्यातम् । यदि नाम क्लेशौघः सत्कायदर्शनोद्भूतः, तथापि कथमसौ नैरात्म्यदर्शनान्निवर्त्तते ? इत्याह
सत्त्वदृक्प्रत्यनीकं च तन्नैरात्म्यनिदर्शनम् ।
अभ्यासात् सात्म्यमायाते तस्मिन् सा विनिवर्तते ॥ ३४८९ ॥ सत्त्वदृक्=सत्त्वदर्शनम् । सत्कायदृष्टिरिति यावत् । तस्याः प्रत्यनीकम् = प्रतिपक्षः । एतदपि पूर्वं दर्शितमेव निदर्शनम् । तस्मिन्निति नैरात्म्यनिदर्शने । सेति सत्त्वदृक् ।। ३४८९ ।। तन्मूलक्लेशराशिश्च हेत्वभावात् प्रतीयते' ।
१. दृष्टधर्मोऽपि - पा०, गा० ।
४. सत्कार्य - पा०. गा । एवमुपर्यपि ।
२. ० योगादिनियम- पा० । ५. पा०, गा० पुस्तकयोर्नास्ति ।
३. दृष्टधर्मोऽपीति पा०, गा० । ६. प्रहीयते- गा० ।