________________
७६४
तत्त्वसंग्रहे कर्तृकृत्रिमवाक्यानामुच्यते न त्वनादिता। प्रामाण्यसिद्धये यस्मात् साऽप्रमाणेऽपि वर्त्तते॥३४७७॥ तथा हि नास्तिकादीनां तथा तद्वचसामपि।
वेदानां च प्रवक्तृणां नानादित्वेऽपि मानता ॥३४७८ ॥ न ह्यनादितास्माभिः साधनत्वेनोच्यते । तस्याविपक्षेऽपि वृत्तेरनैकान्तिकत्वात् । अतोऽध्यारोप्य दूषणं भवताभिहितम् ॥ ३४७७-३४७८ ॥
किञ्च-भवतामेव वेदप्रामाण्यसिद्धये वेदप्रवक्तृणां वेदानां चानादित्वं साधनं ब्रुवतां सर्वमेतद् दूषणं स्फुटतरमवतरतीति दर्शयन्नाह- .
वक्त्रकृत्रिमवाक्यानामुच्यते या त्वनादिता। ...
प्रामाण्यसिद्धयै साऽस्माभिः स्पर्धयैव निषिध्यते॥३४७९ ॥ [G.903] वक्तारश्चाकृत्रिमवाक्यानि चेति द्वन्द्वः । तत्र वक्तार:=वेदानां व्याख्यातारः ॥ ३४७९ ॥
कथं निषिध्यन्ते? इत्याह. वक्तारः कर्तृभिस्तुल्यास्तदपेक्षा च मानता। . . .
वेदानां तत्कृताख्यानादर्थप्रत्ययजन्मतः॥३४८०॥ तदपेक्षेति वक्त्रपेक्षा। कथम्? इत्याह-तत्कृताख्यानादिति। तैवक्तृभिः कृताद् व्याख्यानादर्थप्रतीत्युत्पत्तेः कारणात् तदपेक्षा मानता वेदानाम् ॥ ३४८० ॥ ततश्च को दोषः? इत्याह
अतो न वेदवाक्यानां पारतन्त्र्यात् प्रमाणता। अपश्यतां स्वयं धर्मं वक्तृणामपि नैव सा॥३४८१॥ तदीदृशां प्रवक्तृणां कल्प्यमानाप्यनादिता। अप्रामाण्यपदस्थत्वान्नास्तिकादेर्न भिद्यते॥३४८२॥
तदज्ञानविशेषत्वात् सर्वं यात्यत्र तुल्यताम्। नैवेति। प्रमाणतेति सम्बन्धः॥
यदा चैवं वेदवाक्यानां पारतन्त्र्यात् प्रमाणता नास्ति तत्प्रवक्तृणां च सर्वेषामन्धपरम्परावद् धर्ममपश्यतामप्रामाण्यम्, अतो यत् परेणोक्तम्-"प्रमाणत्वाप्रमाणत्वे स्यातामेवमनादिनी" (तत्त्व० ३१८१) इति, तदयुक्तमित्यादर्शयन्नाह
न मानत्वाप्रमाणत्वे स्यातामेवमनादिनी॥३४८३ । सिद्धे हि वक्त्रकृत्रिमवाक्यानां प्रामाण्ये प्रमाणत्वस्यानादित्वं स्यात्, यावता तदेव न सिद्धमित्ययुक्तं द्वयोरनादित्वमिति भावः ॥ ३४८१-३४८३ ॥
किञ्च-यदेतदस्माभिर्वेदतदध्यायिनां बुद्धतद्वाक्यैः सह तुल्यत्वमापादितम्, तत् स्पर्धयैव, न पुनर्भगवतां तद्वाक्यानां चैतैस्तुल्यत्वमस्ति, अपितु विशेषो महानिति दर्शयन्नाह
यद्वाऽस्त्येव विशेषोऽयं मुनौ तद्वचनेषु च।
स दृष्टवान् स्वयं धर्ममुक्तवाँश्च कृपामयः ॥ ३४८४॥ १. तथा विपक्षेऽपि-पा० ।
२नन्वनादिता-पा०, गा।