________________
अतीन्द्रियार्थदर्शिपरीक्षा
७६३ परमार्थतो निर्विषयैर्वस्तुप्रतिबन्धादविसंवादिभिर्विकल्पैर्हेतुफलभूतामतीतामनागतां च भावसन्ततिमालम्ब्यातीतानागतं वस्तु व्यवस्थापयन्ति योगिन इति । यदाह
"पारम्पर्येण साक्षाद् वा कार्यकारणतां गतम्। यद् रूपं वर्तमानस्य तद् विजानन्ति योगिनः ।। अनुगच्छन्ति पश्चाच्च विकल्पानुगतात्मभिः । शुद्धलौकिकविज्ञानैस्तत्त्वतो विषयैरपि। तद्धेतुफलयोभूतां भाविनीं चैव सन्ततिम्। · समाश्रित्य प्रवर्त्तन्तेऽतीतानागतदेशनाः॥"
(तत्त्व० १८५२-१८५४) इति ॥३४७२॥ एतच्च सौत्रान्तिकानां नेष्टम्, सर्वत्र भगवतः साक्षाद्दर्शित्वाभ्युपगमादित्यतः सौत्रान्ति कदृष्टाभीष्टमतमादर्शयन्नाह
यदि वा योगसामर्थ्याद् भूताजातनिभं स्फुटम्।
लिङ्गागमनिराशंसं मानसं योगिनां भवेत् ॥३४७३॥ यथा हि सत्यस्वप्रदर्शिनो ज्ञानमविषयमपि परमार्थतो लिङ्गागमानपेक्षं [G.902] चाश्रयविशेषवशादुत्पद्यमानमविसंवादि भवति, तथा योगिनां योगबलेन यथैव तदभूद् भविष्यति चातीतमनागतं वस्तु तथैव स्फुटप्रतिभासं लिङ्गागमानपेक्षं जायते । तत्त्व प्रत्यक्षं प्रमाणमिष्यते ॥ ३४७३ ॥ . .
स्यादेतत्-स्वलक्षणविषयं प्रत्यक्षमिष्यते, न चातीतमनागतं स्वलक्षणतोऽस्ति, तत् कथं स्वलक्षणविषयं युज्यते? इत्याह- .
स्वात्मावभाससंवित्तेस्तत् स्वलक्षणगोचरम्। स्पष्टावभाससंवेदात् तच्च प्रत्यक्षमिष्यते॥३४७४॥
तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टैव विद्यते। __ नित्यस्य वचसोऽसत्त्वात् तेन कश्चिन्न पश्यति॥३४७५ ॥ ___ यद्यप्यतीतादि वस्तु स्वलक्षणतो नास्ति, तथाप्यात्मसंवेदनात् स्वलक्षणविषयत्वेन शास्त्रे निर्दिष्टमित्यविरोधः । तच्च स्फुटप्रतिभासतया कल्पनापोढं तथाविधवस्त्वविसंवादाच्चाभ्रान्तमित्यतः प्रत्यक्षलक्षणोपेतत्वात् प्रत्यक्षमिति सिद्धम् ॥ ३४७४-३४७५ ।। - "एतदक्षममाणो यः" (तत्त्व० ३१७५) इत्यादावाह
- अतीन्द्रियार्थविज्ञानं पूर्वोक्तादनुमानतः।
मुनेः सुमतयः प्राहुर्नान्यतस्त्वागमात् कृतात्॥३४७६ ॥ • पूर्वोक्तादनुमानात् सिद्धमागमनिरपेक्ष भावनाबलनिष्पन्नमर्थसाक्षात्कारि यदतीन्द्रियार्थविज्ञानं तन्मुनेर्भगवतः सुधियः सौगता: प्राहुः,नान्यस्मात् कृतकादागमादित्यतः तदनभ्युपगमाददूषणमेव ॥ ३४७६ ॥
यच्चोक्तम्-“कर्तृकृत्रिमवाक्यानाम्" (तत्त्व० ३१७७) इत्यादि, तत्राह१. वातीता-पा०, गा० ।