________________
७६२
तत्त्वसंग्रहे
दिभ्यो हेतुभ्यः । तथा हि-सर्व एव पुरुषा दूरव्यवस्थितादिपदार्थपरिज्ञानासमर्थाः१ पुरुषत्ववस्तुत्वज्ञेयत्वादिभ्यः,यथाऽहमिति? अत्राह
आत्मोदाहरणेनान्यसामर्थ्याभावनिश्चये ।
पुरुषत्वादिहेतुभ्यः कार्ये चातिप्रसज्यते ॥३४६४॥ निश्चये इत्येतस्य कार्ये इत्येतेन सामानधिकरण्यम् । अत्रानैकान्तिकता; हेतूनामतिप्रसङ्गात्। तथा हि इदमपि शक्यं वक्तुम्–'सर्व एव पुरुषा जडबुद्धयः, पुरुषत्वादिभ्यः यथा भवान्' इति । न चैवं भवति। न ह्येकत्र पुरुषेऽदृष्टस्य धर्मस्य सर्वत्राभावः शक्योऽवसातुम्; पुरुषाणां विशेषदर्शनात्। यच्च ऋतुपर्णेनोकम्-"सर्वः सर्वं न जानाति' (म० भा० व० प० ७२.८) इत्यादि, तदपि प्रतिज्ञामात्रमेवाप्रमाणकं तेनोक्तमित्यादर्शयन्नाह- ..
एवं हि भवतो जाड्ये निश्चिते सर्वसूरयः। त्वदुदाहरणेनैव भवेयुर्जडबुद्धयः ॥ ३४६५॥ . "नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे वचित्''।
(म० भा०, व० प० ७२.८) इतीदमपि वाड्मात्रमहेतुकमुदाहृतम्॥३४६६ ॥ अथ वा-आत्मसमान् पुरुषानभिसन्धाय ऋतुपर्णेन भाषितम्, तेनाविरोधादज्ञापकमेतदित्यादर्शयन्नाह
स्वसमानथ वा सत्त्वानविशुद्धधियो जडान्। अधिकृत्य तथा वाक्यमृतुपर्णेन कीर्तितम्॥३४६७॥ प्रमाणं विस्तरेणोक्तं सर्वज्ञस्य च सम्भवे। बाधकं च प्रतिक्षिप्तं तस्य पूर्व परोदितम्॥३४६८॥ अनुक्तेऽप्यथ वा तस्मिस्तस्य सम्भवसाधने। बाधकापोहमात्रेण गम्यते तस्य सम्भवः ॥३४६९॥ तथा हि बाधकेऽदृष्टे साधके चाप्रकाशिते। संशयो जायते येन याति सम्भावनामसौ॥३४७०॥ तस्मिन् सम्भाव्यमाने च नियमस्तेन सिध्यति।
वेदेनैव स्वतन्त्रेण धर्मो लक्ष्यत इत्ययम्॥३४७१॥ स्वेन आत्मना, समा:-तुल्याः स्वसमाः ॥ ३४६७-३४७१ ।। "अनागते न दृष्टम्" (तत्त्व० ३१७३) इत्यादावाह- "
अनागते च विज्ञेये प्रत्यक्षस्य तथा भवेत्।
सामर्थ्य योगिनामुक्तं तत् त्रैकाल्यपरीक्षणे॥ ३४७२ ॥ तत्रैकाल्यपरीक्षण इति । तत्र ह्येवमुक्तम्-सर्व एव हि भावाः साक्षात् पारम्पर्येण वा कार्यकारणतां गताः, अत्र वर्तमानमेव वस्त्वतीतस्य साक्षात् पारम्पर्येण वा कार्यभूतम्, अनागतस्य तु कारणभूतम्। प्रत्यक्षेण यथावत् सर्वाकारमनुभवन्तस्तत्पृष्ठलब्धैः शुद्धलौकिकैः १. ० परार्थ-पा०, गा०।
२. अनागमस्य-जै०।