________________
अतीन्द्रियार्थदर्शिपरीक्षा
७६१ प्रायेण प्रवृत्तिः सम्भवति, तथा हि-"धर्म वो, भिक्षवो, देशयिष्यामि" (म० व० १.६.१२) इत्येवं प्रतिज्ञाय प्रवृत्तेर्धर्माधुपदेशपरैवेयं देशना, नान्यार्थपरा-इत्यवसीयते। वाहिनी-नदी। विद्रुमः=वृक्षः, प्रवालं वा ॥ ३४५४-३४५६॥ मोहादप्युपदेशसम्भवादनैकान्तिकतेति चेद्? आह
विक्षिप्तचेतसामेतन्मूढानां न च भाषितम्।
नियतानुक्रमं हीदं प्रकृष्टं फलसाधकम्॥३४५७॥ न हि नियतानुपूर्वीकं पूर्वापराव्याहतं पुरुषार्थसाधकं वाक्यं विक्षिप्तचेतोभिरनल्पं भाषितुं शक्यम्। तस्मात् सिद्ध केनचित् साक्षाद् धर्मादयो विज्ञाता इति ॥ ३४५७ ॥
स्यादेतत्-यदि नाम सामान्येन सिद्धम्, तथापि सुगते धर्मज्ञत्वं साधयितुमिष्टम्, तत्ते कथं सिध्यति? इत्याशङ्कय भगवति धर्मज्ञत्वं साधयन्नाह
योऽश्रुतानुमितं सत्यं तत्परोऽर्थं प्रकाशते। प्रत्यक्षज्ञाततद्रूपः स तादृक्प्रतिपादकः ॥३४५८॥ प्रत्यक्षदृष्टनीरादिर्यथाऽन्यः प्रतिपादकः। अश्रुतानुमितं सत्यं तत्परस्वार्थमुक्तवान्॥३४५९॥ अतीन्द्रियं पराज्ञातसामर्थ्य परिनिश्चयात्।
मुद्रामण्डलकल्पादि लक्षणं मुनिसत्तमः ॥३४६०॥ प्रयोगः-यस्तत्परोऽश्रुतानुमितसत्यार्थोपदेशी सर साक्षाद्विदिततदर्थतत्त्वः२,यथा प्रत्यक्षज्ञातसलिलादिस्तदुपदेष्टा । तथा च भगवानिति स्वभावहेतुः । सत्यत्वादेः प्रसाधितत्वानासिद्धता हेतोः । नाप्यनैकान्तिकतेति प्रतिपादितमेतत्। सर्वेषां च हेतूनां सपक्षे सत्त्वान्न विरुद्धतेति मन्तव्यम् । पराज्ञातसाममिति । परैरज्ञातं सामर्थ्य यस्य मुद्रादेस्तत्तथोक्तम्॥३४५८ -३४६०॥ .. . . यदुक्तम्-'तस्मादतिशयज्ञानैः' (तत्त्व० ३१६८) इत्यादि, तत्राह
तस्मादतिशयज्ञानरुपायबलवर्तिभिः । सर्व एवाधिको ज्ञातुं शक्यते योऽप्यतीन्द्रियः ॥३४६१॥ एकापवरकस्थस्य प्रत्यक्षं यत् प्रवर्त्तते। शक्तिस्तत्रैव तस्य स्यानैवापरवरकान्तरे॥३४६२॥ इत्येतत् सर्वसत्त्वस्थसामर्थ्यानुभवे सति।
निश्चेतं भवतो युक्तमन्यथा किन्निबन्धनम्॥३४६३॥ [G.900] एतत्प्रतिज्ञामात्रप्रमाणकमेवोक्तं भवता, न पुर्वाग्दर्शिनामनुपलम्भमात्रेण सर्वसामतीन्द्रियार्थज्ञानशक्तिर्निश्चेतुं पार्यते ॥ ३४६२-३४६३ ॥
स्यादेतत्-नानुपलम्भमात्रेणास्माभिरशक्तिनिश्चयः क्रियते, किं तर्हि ? पुरुषत्वा१. ० प्रतिपादित:- जै० पुस्तके पाठा०1 २. पा० पुस्तके नास्ति। ३. साक्षाद्विविदित०-गा।
४. भगवता-पा०/