Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
७९०
तत्त्वसंग्रहे
पुरस्तादनुमानेन तस्य सत्ता प्रसाधिता।
प्रमाणमस्य सद्भावे तदस्तीत्यस्ति तादृशः ॥ ३६३८॥ • "युगपत् परिपाट्या च" (तत्त्व० ३२५७) इत्यादावाह
युगपत्परिपाट्या वा ज्ञानं कार्यात् प्रकाशितात्।
सामर्थ्यमपि तस्यास्ति देशनां कुरुते यदा॥३६३९॥ [G.935] सुबोधम् ॥ ३६३९॥ "लब्धासाधारणोपायः" (तत्त्व० ३२५९) इत्यादावाह
स्वभ्यस्तधर्मनैरात्म्या यस्येयं देशनाऽमला। साधिता सर्वशास्त्रेण सर्वमानैरबाधिता॥ ३६४०॥... संसार्यनुचितज्ञाना केशवादेरगोचरः। शिरोभिरर्च्यते भक्त्या या चातीव मनीषिभिः॥३६४१॥ समस्तदुरितारातिवर्गभङ्गविधायिनी । चित्राभ्युदयनिष्पत्तिनिर्वाणप्राप्तिकारणम् ॥३६४२॥ लब्धासाधारणोपायोऽशेषपुंसां विलक्षणात्।
स एकः सर्वविन्नाथ इत्येतत् सप्रमाणकम्॥३६४३॥ विस्तर:- सर्वशास्त्रेणेति । सकलेनामुना तत्त्वसङ्गहण। संसार्यनुचितज्ञानेति संसारिणामनुचितम्= असहजं संसार्यनुचितं तत् तादृशं ज्ञानं यस्यां देशनायां सा तथोक्ता . केशवादेरगोचर इति । स्वलिङ्गेनैव देशनासमानाधिकरणमेतत्। समस्तदुरितारातिवर्गभङ्गविधायिति । दुरितान्येवारातयस्तेषां वर्ग:-समूहः, तस्य भङ्ग विधातुं शीलमस्या इति विग्रहः । चित्राभ्युदयनिष्पत्तिनिर्वाणप्राप्तिकारणमिति । कारणशब्द: प्रत्येकमभिसम्बध्यते । चित्राभ्युदयनिष्पत्तिकारणं चेत्यर्थः ॥ ३६४०-३६४३॥ . "इत्थं यदा न" (तत्त्व० ३२६०) इत्यादावाह
इत्थं यदा च सर्वज्ञः कश्चिदेवोपपद्यते।
धर्मादयधिगमे हेतुः पौरुषेयं तदा वचः ।। ३६४४॥ कश्चिदेवेति । सुगत एव, न कपिलादिः। यथोक्तं प्रागित्यभिप्राय: । यश्च निराकारसाकारज्ञानविकल्पेन दोष उक्तः, तदपि पूर्वमेवास्माभिः प्रतिविहितम् ॥ ३६४४ ॥ ननु चोक्तम्
"अनिर्भासं सनिर्भासमन्यनिर्भासमेव च।
विजानाति न विज्ञानं बाह्यमर्थं कथञ्चन ॥" (तत्त्व० १९९८) इति, तत् कथमुभयपक्षाश्रयणेऽपि दोषाप्रसङ्ग उच्यते?-इत्येतदाशङ्कय आह
निराकारादिचिन्ता तु सर्वज्ञे नोपयुज्यते। यथा हि भवतां ज्ञानं क्वचिदर्थे तथा परम्॥३६४५॥ श्रीशान्तरक्षितविरचितस्तत्त्वसंग्रहः समाप्त:
२. शक्त्या -पा०, गा०। । ४. पा०, गा० पुस्तकयोनास्ति।
-
:
-
बिलक्षण -गा।

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450