Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 381
________________ ७८५ अतीन्द्रियार्थदर्शिपरीक्षा भुजङ्गः-धूर्तः ॥ ३६१९-३६२० ॥ यच्चोक्तम्-"युगपच्छुच्यशुच्यादि" (तत्त्व० ३२४८) इत्यादि, तत्राह युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम्। ज्ञानमेकधिया दृष्टं न विरुद्धा विदा हि ते॥३६२१॥ यद्यपि भावाः केचित् परस्परं विरोधिनः, तथापि ते विदा-ज्ञानेन सहाविरुद्धा एव; युगपदेकेनापि ज्ञानेन विरुद्धानेकार्थग्रहणोपलम्भात् ।। ३६२१ ॥ एतदेव स्पष्टयन्नाह अन्योऽन्यपरिहारेण स्थितलक्षणतोऽथ वा। एकस्मिन्न सहस्थानं विरोधस्तेषु सम्भवेत्॥३६२२॥ एकज्ञानावभासित्वं न तु तेषां विरोधिता। शुच्यशुच्यहिशिख्यादेश्चक्षुषा सकृदीक्षणात्॥३६२३॥ द्विविध एव हि भावानां विरोध:- परस्परपरिहारस्थितलक्षणता, सहानवस्थानता च। तत्र ये परस्परपरिहारेण स्थितलक्षणाः, तेषामैक्यं विरुद्धम्। ये तु [G.929] सहानवस्था- . यिनः, तेषामेकदेशावस्थानं विरुद्धम्। न चैकविज्ञानभासनादेषामैक्यम्,एकदेशत्वं वा प्रसज्येत । तेन नैकविज्ञानभासित्वेनैषां विरोधः। दृष्टं च विरुद्धानामपि सतामेकज्ञानभासनम्, यथा शुच्यशुचिनोश्चक्षुर्ज्ञानेन परस्परपरिहारस्थितलक्षणयोरहेर्मयूरस्य च सानवस्थायिनोर्युगपद् ग्रहणम्। आदिशब्देन छायातपादीनां ग्रहणम्। यदि तर्हि विरुद्धानामप्येकज्ञानावभासनमविरुद्धम् ॥ ३६२२-३६२३॥ एवं सति सुखदुःखयो रागद्वेषयोरेकज्ञानभासनं प्राप्नोति? इत्याशङ्कयाह- सुखदुःखादिभेदे तु यत् संकृन्नास्ति वेदनम्। हेत्वभावादसान्निध्यात् तज्ज्ञेयं न विरुध्यते॥३६२४॥ तज्ज्ञेयमिति । यत्सुखादीनां सकृदवेदनम्, तत् कारणाभावेनानुत्पत्तेरसन्निहितत्वात् सुखादीनां विरुद्धत्वादित्येवं ज्ञेयम्, वोद्धव्यमित्यर्थः । एतदुक्तं भवति–कारणवैकल्यादसान्निध्यं तत्र कारणम्, न परस्परविरोध इति ॥ ३६२४ ॥ येषां च वास्तवो विरोधः न तु शुच्यशुच्यादिवत् कल्पनाकृतः, तेषामप्येकज्ञाने भासनमस्तीति दर्शयति नीलपीतावदातादिरूपभेदाविरोधिनः । देशप्रकृतिभेदेन वीक्ष्यन्ते युगपद् यतः॥३६२५॥ देशप्रकृतिभेदेन विरोधिन इति सम्बन्धः । तत्र देशभेदः-तदतद्देशत्वम्। प्रकृतिभेद:-नीलपीतादिस्वभावत्वम्, यद्वा नीलाधुपादानकारणत्वम् ॥ ३६२५ ॥ यच्चोक्तम्-"भूतं भवद्भविष्यच्च" (तत्त्व०३२४९) इत्यादि, तत्राह एकज्ञानक्षणव्याप्तनिःशेषज्ञेयमण्डल: । . प्रसाधितो हि सर्वज्ञः क्रमो नाश्रीयते ततः ॥ ३६२६ ।। १. तत्-पा०; न तु-गा। २. ०भेदेऽपि-जै०. पा० ।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450