Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 373
________________ अतीन्द्रियार्थदर्शिपरीक्षा ৩৩৩ शक्यम्, किमुत देशकालव्यवस्थिते पुंसि। एवम्भाव इति। नायं सर्वज्ञ इत्येवं निश्चयस्य। अथ मा भूदसिद्धता हेतोरित्यात्मासर्वज्ञतया शेषासर्वज्ञनिश्चयोऽभ्युपगम्यते, तदातिप्रसङ्गादनकान्तिकतेत्यादर्शयन्नाह-आत्मासर्वज्ञता दृष्टावित्यादि। आत्मन्यसर्वज्ञताया दृष्टिरिति विग्रहः । स्यादेतत्-सर्वधर्मसाधनं क्रियमाणं दृष्टेन प्रज्ञादिभेदेन बाध्यत इत्यतस्तस्य साधनं क्रियते, तत् त्वसर्वज्ञत्वं साध्यमानं 'केनचिद् बाध्यत इत्यतोऽतिप्रसङ्गो न भविष्यतीति? तदेतदसम्यक्; यथैव दृष्टबाधं साध्यं हेतुर्न साधयति, तथा शङ्कयमानबाधमपीत्यतो बाधाशङ्का बाधादृष्टेर्न भिद्यते; तेनासर्वज्ञत्वसाधनमपि मा भूद्; आशङ्कयमानबाधत्वात् ।। ३५६१-३५६३ ।। यच्चोक्तम्- "उपदेशो हि बुद्धादेरन्यथाप्युपपद्यते" (तत्त्व० ३२२२) इत्याह स्वर्गापवर्गमार्गोक्तिरनवद्या प्रसाधिता। बुद्धानां तां जडात् कोऽन्यो व्यामोहादभिमन्यते॥३५६४॥ अन्यथोपपन्नत्वमुपदेशस्यासिद्धम्। न हि स्वार्गपवर्गमार्गस्य निरवद्य उपदेशो व्यामोहात् सम्भवति । निरवद्यत्वं च भगवद्वचनस्य सर्वाभिः परीक्षाभि: प्रसाधितम्। जडदिति कुमारिलात्। स एव यदि परं मन्यत इत्यर्थः ॥ ३५६४॥ "शिष्यव्यामोहनार्थं वा" (तत्त्व० ३२२४) इत्यत्राह दृष्टेऽप्यभ्युदयं चित्तदोषशान्तिं परां तथा। ततश्चाप्नुवतां तेन परं व्यामोहनं कृतम्॥३५६५॥ [G.919] दृष्ट इति अस्मिन्नेव जन्मनि । अभ्युदयम्=नित्यारोग्यैश्वर्यादिलक्षणम् । अवाप्नुवतामिति सम्बन्धः। दोषशान्ति चेति। रागादिदोषोपशमम्। ततः=मन्त्रध्यानसमयाभ्युपदेशात् तत्कृताद् यथाविहितानुष्ठानादाप्नुवतां शिष्याणां परं व्यामोहनं कृतमित्यतिशयोक्तिरियम्। यदीदृशं व्यामोहं भवान् मन्येत, तदा भवानेव व्यामूढः स्यादव्यामोहमेवं व्यामोहमिति गृह्णन् ॥ ३५६५ ॥ "यद्यसौ वेदमूलः स्यात्" (तत्त्व० ३२२५) इत्यत्राह.. वेदमूलं च नैवेदं - बुद्धानामुपदेशनम्। निष्कलङ्कं हि तत् प्रोक्तं सकलङ्कं श्रुतौ पुनः॥३५६६॥ न हि निष्कलङ्कमुपदेशनं सकलङ्कमूलं युक्तम् ॥ ३५६६ ॥ "यतस्तु मूर्खशूद्रेभ्यः" (तत्त्व० ३२२६) इत्यत्राह स्वार्थसंसिद्धये तेषामुपदेशो न तादृशः। आरम्भः सकलस्त्वेष परार्थं कर्तुमीदृशः॥ ३५६७॥ तस्माजगद्धिताधानदीक्षिताः करुणात्मकाः। अनिबन्धनबन्धुत्वादाहुः सर्वेषु तत् पदम्॥३५६८॥ पदमिति । सर्वगुणसम्पत्प्रतिष्ठार्थेनाभ्युदयनिःश्रेयसमार्ग:पदमुच्यते ॥ ३५६७-३५६८॥ यैस्तु मन्वादिभिर्वेदवादिभ्य एवोपदेशनं कृतम्, तेषामेव व्यामोहार्थं तत् सम्भाव्यत इति दर्शयति१. न क्रियते- गा०। २. न केनचिद्-गा०। ३-३. ०मार्गोक्ति निरवद्या प्रसाधिताम्-पा०, गा० ।

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450