Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 371
________________ -७७५ अतीन्द्रियार्थदर्शिपरीक्षा बुद्धानामिष्यतेऽस्माभिर्निर्माणं 'तु तथा मतम् ॥३५४९॥ [G.916) नरकप्रेततिर्यग्देवमनुष्यभेदेन पञ्चगत्यात्मकः संसारः, तद्बहिर्भूताश्च बुद्धा भगवन्त इत्यसिद्धं मर्त्यत्वमेषाम्। कथं तर्हि शुद्धोदनादिकुलोत्पत्तिरेषां श्रूयते? इत्याह-निर्माणं तु तथा मतमिति ॥ ३५४९॥ एतदेवागमेन संस्पन्दयन्नाह अकनिष्ठे पुरे रम्ये शुद्धावासविवर्जिते। बुध्यन्ते तत्र सम्बुद्धा निर्मितस्त्विह बुध्यते॥३५५०॥ अकनिष्ठा नाम देवा'; तेषामेकदेशे शुद्धावासकायिका नाम देवा:२,अत्र हि आर्या एव शुद्धा आवसन्ति । तेषामुपरि माहेश्वरभवनं नाम स्थानम्, तत्र चरमभविका एव दशभूमिप्रतिष्ठिता बोधिसत्त्वा उत्पद्यन्ते । इह तु तदाधिपत्येन तथा निर्माणमुपलभ्यत इत्यागमः ॥ ३५५० ॥ नास्माकमिदं सिद्धमिति चेद् ? आह स्वातन्त्र्येण तु मर्त्यत्वं त्वया निश्चीयते कथम्। परकीयागमद्वारान - तस्यैवमवस्थितेः॥३५५१॥ न च तत्स्पर्धयाऽस्माभिस्ते सर्वज्ञा इतीष्यते। आकाशकुसुमैः को हि स्पर्द्धा सत्येषु कल्पयेत्॥३५५२॥ यदि हि स्वातन्त्र्येण मर्त्यत्वं भवतोपादीयते, तदा सन्दिग्धासिद्धता। न हि भगवतो मर्त्यत्वप्रसाधकं किञ्चिद् भवतः प्रमाणमस्ति, येन स्वातन्त्र्येण मर्त्यत्वं सिद्धं भवेत्। तस्मात् परकीयागमद्वारेण त्वया मर्त्यत्त्वं वक्तव्यम्, स च परस्यागम एवम् यथोक्तरूपं स्थित इत्यसिद्धमेषां मर्त्यत्वम्॥ ३५५१-३५५२॥ कथमाकाशकुसुमप्रख्यत्वमेषां सिद्धम् ? इत्याह- . . सर्वशक्तिवियोगेन नीरूपत्वं हि साधितम्। . नित्यानां तेन नो सन्ति परेष्टास्त्र्यम्बकादयः॥३५५३॥ परेण हि शङ्करादयो नित्यत्वेनेष्टाः । नित्यानां च क्रमाक्रमाभ्यामर्थक्रियाविरोधात् सर्वसामर्थ्यरहितत्वं प्रसाधितम् । सर्वसामर्थ्यविरहलक्षणं चासत्त्वमिति परेष्टास्त्र्यम्बकादयो नित्या न सन्त्येव-इत्याकाशकुसुमप्रख्यत्वमेषां सिद्धमेव । त्र्यम्बक: शङ्करः ॥ ३५५३॥ किञ्च-सन्तु नाम त्रयम्बकादयः तथाप्यतिनिकृष्टतया तेषाम्, न भगवतां तैः सह स्पर्धा क्रियतेऽस्माभिरित्यादर्शयन्नाह किञ्च-तेषां विपर्यस्तं ज्ञानमात्मादिदर्शनात्। बुद्धानां त्वविपर्यस्तं विस्तरेणोपपादितम्॥ ३५५४॥ तत्स्पर्धा क्रियते तैस्तु न दूरान्तरभावतः। को हि तैमिरिकैः स्पर्धा कुर्यात् स्वस्थेक्षणे नरे॥३५५५ ॥ [G.917] सुबोधम् ॥ ३५५४-३५५५ ॥ १-१. तत्तथा०- पा०, गा०। २-२. पा०, गा०, पुस्तकयो स्ति। ३. देशा:-गा।

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450