Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 377
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७८१ केन ग्रन्थेनोपपादितम्? इत्याह निःशेषार्थपरिज्ञानसाधने विफलेऽपि हि। सुधियः सौगता यत्नं कुर्वन्तीत्यादिना पुरा॥३५९१॥ किञ्च-नास्माभिः सर्वज्ञोक्तत्वमवगम्य तदनुष्ठानाय सर्वज्ञः प्रसाध्यते, किं तर्हि ? ये सार्वज्ञपदप्राप्तीच्छवस्तदर्थं दोषपक्षो गुणोत्कर्षाय प्रसाध्यते; यतो वस्तुबलप्रवृत्तानुमानत एव सौगताः पुरुषार्थेषु घटन्ते, न प्रवादमात्रेण । प्रमेयत्वादीनां च यथा साधनत्वं भवति तथा प्रतिपादितमेव। ___ यच्चोक्तम्- "दशभूमिगतः" (तत्त्व० ३२३७) इति, तदपि सिद्धान्तानभिज्ञेन भवतोक्तम्। न हि दशभूमिगतो भगवानिष्यते, किं तर्हि ? बोधिसत्त्वावस्थाऽसौ यावद्दशभूमी:, तत ऊर्ध्वं बुद्धभूमिरिष्यते ॥ ३५९१ ॥ यच्चोक्तम्-"एकदेशज्ञगीतं तन्न स्यात् सर्वज्ञभाषितम्" (तत्त्व० ३२३९) इति, तदपि प्रतिविहितमेवेति दर्शयन्नाह एकदेशज्ञगीतं तु न स्यात् सर्वज्ञभाषितम्। इत्यत्रापि पुरा प्रोक्तं सर्वज्ञानान्वयादिति॥३५९२॥ एतदेव पुनरपि प्रतिपादयन्नाह यथैवेष्टादिकानर्थान् अनुभूयाल्पदर्शनः । चेतस्यारोप्य तान् पश्चात् प्रवक्त्यनुभवाश्रयान्॥३५९३॥ न च तद्वचनं तस्य तद्वस्तुज्ञानजन्म न। • एवं सर्वज्ञवाक्यं स्याद्धेतुभेदाम् तु भिद्यते॥३५९४॥ [G.924] अल्पदर्शन इति अग्दिर्शनः, असर्वज्ञ इति यावत्। तद्वस्तुज्ञानजन्मेति । तस्योष्णादेर्वस्तुनो ज्ञानमनुभवः, तद्वस्तुज्ञानं ततो जन्मोत्पत्तिर्यस्य वचनस्य-तत् तथोक्तम्। न नेति प्रतिषेधद्वयेन तद्वस्तुज्ञानजन्मैवं भवतीति दर्शयति। एवमिति। तदपि तद्वस्तु ज्ञानजन्मतया प्रमाणम्। यद्येवम्, को विशेषोऽल्पदर्शनवचनाद् बुद्धवचनस्य। इत्याह-हेतुभेदात्तु भिद्यत इति ॥ ३५९३-३५९४॥ . एतदेव स्पष्टयति समस्तवस्तुविज्ञानमस्य कारणतां गतम्। किञ्चिन्मात्रार्थविज्ञानं निमित्तं तस्य तु स्थितम्॥३५९५॥ अस्येति बुद्धवचनस्य। तस्य त्विति एकदेशज्ञवचनस्य॥ ३५९५ ॥ विकल्पेत्यादिना परश्चोदयति विकल्पासम्भवे तस्य विवक्षा ननु कीदृशी। प्रहीणावरणत्वाद्धि' विकल्पो नास्य वर्त्तते?॥३५९६॥ न ह्यसम्भवद्विकल्पस्य विवक्षा सम्भवति; तस्या विकल्पविशेषत्वात् । अतोऽसौ विकल्पत्वेन व्याप्ता सती तद्भावे कथमवस्थां लभेत ! न हि वृक्षाभावे शिंशपायाः १.बोधिसत्त्वावस्थां- पा०, गा०। २. प्रहीणाचरणत्वात्– गा०। ३. तदभावे-गा०। ४. कल्पस्य- गा० ।

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450