Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 375
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७७९ भवेद् भवतां वैशिष्टयम्, अन्यथा लुब्धककैवर्तचर्मकारादिब्राह्मणस्येव सत्यपि ब्राह्मणजातियोगे कथमिव वैशिष्ट्यं सिध्येत् ॥ ३५७४-३५७६ ।। [G.921] द्वितीयेऽपि पक्षे दोषमाह जातकर्मादयो ये च प्रसिद्धास्ते तदन्यवत। आचाराः सावृतास्ते हि कृत्रिमेष्वपि भाविनः॥३५७७॥ तदन्यदिति । कृत्रिमाभिमतब्राह्मणेष्विव। सांवृताइति। नामकरणादिवत् सांव्यवहारिकाः । तृतीयेऽपि पक्षे न युक्तो मदः, न हि ब्राह्मणब्राह्मणीशरीराणां शूद्रादिशरीरतः शुक्रशोणिताद्यशुचिमयत्वेन कश्चिद्विशेषोऽस्तीत्युक्तमेतत् ॥ ३५७७॥ अपि च-सन्दिग्धमेव भवतो ब्राह्मणपितृकत्वमित्यतोऽपि न युक्तो मद इत्यादर्शयन्नाह अतीतश्च महान् कालो योषितां चातिचापलम्। तद् भवत्यपि निश्चेतुं ब्राह्मणत्वं न शक्यते॥३५७८॥ अतीन्द्रियपदार्थज्ञो न हि कश्चित् समस्ति वः। .. त्वदन्वयविशुद्धिं च नित्यो वेदोऽपि नोक्तवान्॥३५७९॥ कालान्तरेण कदाचिदब्राह्मणगोत्रकोऽपि सन् भवान् ब्राह्मणः संवृत्त:२–इत्यपि सम्भाव्यते । सत्यपि ब्राह्मणपूर्वत्वे भवतो मातृचारित्रदोषेण जारजातत्वमपि सम्भाव्यत एव। तथा हि–प्रायेण योषितो मन्मथातुराश्चपलचेतसः स्वकुलव्रतसीमानमतिपत्यापि वर्तमाना: समुपलभ्यन्ते । न चातीन्द्रियार्थदर्शी भवद्भिः कश्चिन्नरोऽभ्युपेयते यतो निश्चय: स्यात् । नापि वेदो निवेदयति भवतोऽन्वयशुद्धिम्॥ ३५७८-३५७९ ॥ . किञ्च-म केवलं भवतामात्मन्यपरिनिश्चितब्राह्मण्यानां जातिमदावलेपो न युज्यते, अपि च-मन्वादीनामप्यविदितद्विजातीनां द्विजातिभ्य एवोपदेशो मोहादिति दर्शयति .. अतो मन्वादयोऽप्येषामविज्ञातद्विजातयः। ... नोपदेशं प्रयच्छेयुर्द्विजेभ्यस्तदनिश्चयात्॥३५८०॥ अविज्ञाता: =अनिश्चिता द्विजातयो येषां ते तथोक्ताः । तदनिश्चयदिति तेषां द्विजातीनामनिश्चयात् ।। ३५८० ॥ . अपि च-मन्वादिभिरस्मभ्यमेवोपदेशनं कृतमिति नैतद् भवतां महत्त्वकारणम्, अपि तु परं जडत्वमेव सूचयतीति दर्शयन्नाह नियुक्तिकत्वं वेदार्थे ज्ञापनाशक्तताऽऽत्मनि। वेदाधीतिजडा विप्रा न परीक्षाक्षमा इति॥३५८१॥ कुतश्चिनिश्चितं शङ्के नूनं मन्वादिभिस्ततः। विप्रेभ्य एव वेदादेः कृतं तैरुपदेशनम्॥३५८२॥ [G.922] वेदाधीतिजडाइति । वेदाधीत्या कृता जडा वेदाधीतिजडाः । वेदाध्ययनेन दूरीकृतवस्तुबोधशक्तय इति यावत्। कुतश्चिदिति हेतोः ॥ ३५८१-३५८२ ॥ १. संवृता०- जै०। २. सांवृत-पा०, गा०। ३. अविदिता— जै०। ४. पा०, गा० पुस्तकयो स्ति।

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450