Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 361
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७६५ तथा हि प्रसाधितमेतत् यथा भगवान् साक्षाद् धर्मं दृष्टवान्निर्दिष्टवांश्चेति। अतः, 'अपश्यतां स्वयं धर्मम्' इत्येतदसिद्धमिति भावः ॥ ३४८४ ॥ 4 [G.904] स्यादेतत् —— धर्ममुक्तवान् सः' इत्येतदेव कथं सिद्धम् ? इत्याहयतोऽभ्युदयनिष्पत्तिर्यतो निःश्रेयसस्य च । स धर्म उच्यते तादृक्सर्वैरेव विचक्षणैः ॥ ३४८५ ॥ निःश्रेयसस्य चेति । यतो निष्पत्तिरिति सम्बन्धः । तत्र अभ्युदयः = सुखम्, मोक्षः = निःश्रेयसम्। स धर्म उच्यते तादृगिति । 'यतोऽभ्युदयनिः श्रेयससिद्धिः स धर्म:' (वै० द० १.१.२) इति वचनात् ॥ ३४८५ ॥ भवतु नामाभ्युदयनिःश्रेयससिद्धिहेतुर्धर्मः अस्य तु सुगतवचनस्य कथं तद्धेतुत्वं सिद्धम्, येनास्य धर्मज्ञत्वं भवेत् ? इत्याह तदुक्तमन्त्रयोगादिनियमाद् विधिवत् कृतात् । प्रज्ञारोग्यविभुत्वादिदृष्टधर्मेऽपि ' जायते ॥ ३४८६ ॥ तेन भगवतोक्तस्यासौ मन्त्रायोगादिश्चेति विग्रहः । योग := समाधिः । आदिशब्देन मुद्रामण्डलादिपरिग्रहः । दृष्टधर्मेऽपीति । अस्मिन्नेव जन्मनि । न केवलं परलोक इत्यपिशब्देन दर्शयति ॥ ३४६८ ॥ एवमभ्युदयहेतुत्वमुपदर्श्य निःश्रेयसहेतुत्वं दर्शयन्नाह - समस्तधर्मनैरात्म्यदर्शनात् तत्प्रकाशितात् । सत्कार्यदर्शनोद्भूतक्लेशौघस्य निवर्त्तनम् ॥ ३४८७ ॥ [G.905] जन्मप्रबन्धात्यन्तोपशमो हि सर्वेषामेव मोक्ष इतीष्टम्, तस्य च प्राप्तिहेतुर्भगद्वचनमेव; जन्महेतुक्लेशप्रतिपक्षभूतस्य नैरात्म्यदर्शनस्यात्रैवोपदेशात्, नान्यत्र । सर्वेषामेव चान्यतीर्थ्यानां वितथात्मदर्शनाभिनिविष्टत्वात् । अतो भगवद्वचनमेवाभ्युदयनिःश्रेयसप्राप्त्युपायभूतत्वाद् धर्मलक्षणं युक्तम्,नान्यत् । तेनैतदेव श्रेयोऽर्थिभिराश्रेयम्, नान्यदिति समुदायार्थः । अवयवार्थस्तूच्यते— सत्कार्यदर्शनोद्भूतत्वं क्लेशौघस्य कथं सिद्धम् ? इति चेदाह - आत्मात्मीयदृगाकारसत्त्वदृष्टिः प्रवर्त्तते । अहं ममेति माने च क्लेशोऽशेषः प्रवर्त्तते ॥ ३४८८ ॥ एतच्चास्माभिः पूर्वमेव व्याख्यातम् । यदि नाम क्लेशौघः सत्कायदर्शनोद्भूतः, तथापि कथमसौ नैरात्म्यदर्शनान्निवर्त्तते ? इत्याह सत्त्वदृक्प्रत्यनीकं च तन्नैरात्म्यनिदर्शनम् । अभ्यासात् सात्म्यमायाते तस्मिन् सा विनिवर्तते ॥ ३४८९ ॥ सत्त्वदृक्=सत्त्वदर्शनम् । सत्कायदृष्टिरिति यावत् । तस्याः प्रत्यनीकम् = प्रतिपक्षः । एतदपि पूर्वं दर्शितमेव निदर्शनम् । तस्मिन्निति नैरात्म्यनिदर्शने । सेति सत्त्वदृक् ।। ३४८९ ।। तन्मूलक्लेशराशिश्च हेत्वभावात् प्रतीयते' । १. दृष्टधर्मोऽपि - पा०, गा० । ४. सत्कार्य - पा०. गा । एवमुपर्यपि । २. ० योगादिनियम- पा० । ५. पा०, गा० पुस्तकयोर्नास्ति । ३. दृष्टधर्मोऽपीति पा०, गा० । ६. प्रहीयते- गा० ।

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450