Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 362
________________ ७६६ तत्त्वसंग्रहे तस्मिन्नसति तद्धेतुर्न पुनर्जायते भवः ॥ ३४९०॥ . तन्मूलइति सत्त्वदृग्मूलः । हेत्वभावदिति सत्त्वदर्शनाख्यस्य हेतोरभावात्। तस्मिन्निति क्लेशराशौ। तद्धेतुरिति क्लेशराशिहेतुः । न जायत इति। न हि कारणाभावेकार्यस्योत्पादो युक्तः; निर्हेतुकत्वप्रसङ्गात् ॥ ३४९० ॥ तदत्यन्तविनिर्मुक्तेरपवर्गश्च कीर्त्यते। अद्वितीयशिवद्वारमतो नैरात्म्यदर्शनम्॥३४९१॥ तदत्यन्तविनिर्मुक्तिरिति । तेषां क्लेशानां तस्य वा पुनर्भवस्यात्यन्तं पुनरुत्पत्तितो विमुक्तिस्तदत्यन्तविनिर्मुक्तिः । यथाहुः-'तदत्यन्तविमोक्षोऽपवर्गः' (न्या०द०१.१.२२)इति॥ __ननु चान्यमतेष्वपि तत्त्वदर्शनं निःश्रेयसहेतुः, अभ्युदयहेतवश्च दश कुशलाः कर्मपथाः प्रोक्ताः, तत् कथं नैरात्म्यदर्शनमेवाद्वितीयं मोक्षद्वारमित्युच्यते? इत्याह सर्वेषामपि तीर्थ्यानामहङ्कारनिवर्त्तनात्। .. मुक्तिरिष्टाऽऽत्मसत्त्वे च नाहङ्कारो निवर्त्तते॥३४९२॥ शक्तकारणसद्भावाद् विषयस्याप्यदूषणात्। । तदूषणे त्वभावेन विपर्यासः प्रसज्यते॥३४९३॥ तथा हि-अहङ्कारोद्भवत्वात् स्कन्धानां तन्निवृत्तौ मुक्तिरिति सर्वेषामेव मुमुक्षूणामत्राविवादः । सा चाहङ्कारनिवृत्तिरन्यतीर्थ्यानां न सम्भवतीति; वितथात्मदर्शनाभिनिविष्टत्वात् तेषाम्, अहङ्कारस्य चात्मदर्शनमूलत्वात्। तत्कथमयमात्मसत्त्वे आत्मसत्त्वाभिनिवेशे स्थिते सत्यविकलकारणे, स्वविषये चात्मन्यविदूषिते निवर्तेत । यथोक्तम् 'साहङ्कारे मनसि न शमं याति जन्मप्रबन्धो नाहङ्कारश्चलति हृदयादात्मदृष्टौ तु सत्याम्। अन्यः शास्ता जगति भवतो नास्ति नैरात्म्यवादी नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति मार्गः''। ) इति। तथा हि-मनोधर्मा न कण्टकादिवदुत्कील्यापनेतव्याः, किं तर्हि ? यथाभूतविषयाभिनिवेशेन ते प्रवृत्ताः; तद्धेतुदूषणात्। विदूषयत्येवात्मानं योगीति चेद्? आह-तद्रूषणेत्यादि। तथा हि स विदूष्यमाणो नास्तीत्येवमभावाकारेण दूष्यः, अन्यथा तद्रूषणवैयर्थ्यं स्यात् । तथा हि-यदि सत्त्वेनात्मानमभिनिवेश्य दु:खहेतुत्वं तं दूषयेत्, तदाऽनर्थकमेव दूषणं स्यात्। त्यागार्थं हि तदूषणम्। न च स्वतो नित्यस्य स्वभावभूतस्य त्यागः सम्भवतीत्यतोऽनर्थकमेव तदापद्यते । न चाभावाकारेण [G.906] दूष्यस्तैरात्मा; आत्मनि सत्यासत्यत्वाभिनिवेशेन तेषां विपर्यासप्रङ्गात् ।। ३४९२-३४९३ ॥ किञ्च-भवतु नाम दुःखहेतुत्वादिनाऽन्येनाकारेण तस्य दूषणम्, तथाप्यात्मदर्शनमात्रप्रभवस्याहङ्कारस्य निवृत्तिर्न युक्तेति दर्शयन्नाह न युक्तं नाहमित्येवं यद्यहं नाम विद्यते। ... १. कारणभावे-गा० । २. सम्भवति-पा०गा०।

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450