Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 360
________________ ७६४ तत्त्वसंग्रहे कर्तृकृत्रिमवाक्यानामुच्यते न त्वनादिता। प्रामाण्यसिद्धये यस्मात् साऽप्रमाणेऽपि वर्त्तते॥३४७७॥ तथा हि नास्तिकादीनां तथा तद्वचसामपि। वेदानां च प्रवक्तृणां नानादित्वेऽपि मानता ॥३४७८ ॥ न ह्यनादितास्माभिः साधनत्वेनोच्यते । तस्याविपक्षेऽपि वृत्तेरनैकान्तिकत्वात् । अतोऽध्यारोप्य दूषणं भवताभिहितम् ॥ ३४७७-३४७८ ॥ किञ्च-भवतामेव वेदप्रामाण्यसिद्धये वेदप्रवक्तृणां वेदानां चानादित्वं साधनं ब्रुवतां सर्वमेतद् दूषणं स्फुटतरमवतरतीति दर्शयन्नाह- . वक्त्रकृत्रिमवाक्यानामुच्यते या त्वनादिता। ... प्रामाण्यसिद्धयै साऽस्माभिः स्पर्धयैव निषिध्यते॥३४७९ ॥ [G.903] वक्तारश्चाकृत्रिमवाक्यानि चेति द्वन्द्वः । तत्र वक्तार:=वेदानां व्याख्यातारः ॥ ३४७९ ॥ कथं निषिध्यन्ते? इत्याह. वक्तारः कर्तृभिस्तुल्यास्तदपेक्षा च मानता। . . . वेदानां तत्कृताख्यानादर्थप्रत्ययजन्मतः॥३४८०॥ तदपेक्षेति वक्त्रपेक्षा। कथम्? इत्याह-तत्कृताख्यानादिति। तैवक्तृभिः कृताद् व्याख्यानादर्थप्रतीत्युत्पत्तेः कारणात् तदपेक्षा मानता वेदानाम् ॥ ३४८० ॥ ततश्च को दोषः? इत्याह अतो न वेदवाक्यानां पारतन्त्र्यात् प्रमाणता। अपश्यतां स्वयं धर्मं वक्तृणामपि नैव सा॥३४८१॥ तदीदृशां प्रवक्तृणां कल्प्यमानाप्यनादिता। अप्रामाण्यपदस्थत्वान्नास्तिकादेर्न भिद्यते॥३४८२॥ तदज्ञानविशेषत्वात् सर्वं यात्यत्र तुल्यताम्। नैवेति। प्रमाणतेति सम्बन्धः॥ यदा चैवं वेदवाक्यानां पारतन्त्र्यात् प्रमाणता नास्ति तत्प्रवक्तृणां च सर्वेषामन्धपरम्परावद् धर्ममपश्यतामप्रामाण्यम्, अतो यत् परेणोक्तम्-"प्रमाणत्वाप्रमाणत्वे स्यातामेवमनादिनी" (तत्त्व० ३१८१) इति, तदयुक्तमित्यादर्शयन्नाह न मानत्वाप्रमाणत्वे स्यातामेवमनादिनी॥३४८३ । सिद्धे हि वक्त्रकृत्रिमवाक्यानां प्रामाण्ये प्रमाणत्वस्यानादित्वं स्यात्, यावता तदेव न सिद्धमित्ययुक्तं द्वयोरनादित्वमिति भावः ॥ ३४८१-३४८३ ॥ किञ्च-यदेतदस्माभिर्वेदतदध्यायिनां बुद्धतद्वाक्यैः सह तुल्यत्वमापादितम्, तत् स्पर्धयैव, न पुनर्भगवतां तद्वाक्यानां चैतैस्तुल्यत्वमस्ति, अपितु विशेषो महानिति दर्शयन्नाह यद्वाऽस्त्येव विशेषोऽयं मुनौ तद्वचनेषु च। स दृष्टवान् स्वयं धर्ममुक्तवाँश्च कृपामयः ॥ ३४८४॥ १. तथा विपक्षेऽपि-पा० । २नन्वनादिता-पा०, गा।

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450