Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
७६०
तत्त्वसंग्रहे
अथ वा-ये सत्यात्मनोपदिष्टास्ते केनचिद् विदिताः यथा कनकविशुद्ध्यादयः। सत्यात्मना चोपदिष्टा धर्मादय इति स्वभावहेतुः ॥ ३४४९ ॥ स्यादेतत्-वेदतोऽपि ज्ञात्वोपदेशसम्भवात् सिद्धसाध्यतेति चेद् ? आह
वेदानां पौरुषेयत्वे सिद्धे सिद्धं न साधनम्।
अज्ञातस्योपदेशोऽस्ति तथ्यो यादृच्छिको नरः ॥३४५०॥ [G.898] पूर्व श्रुतिपरीक्षायां वेदानां पौरुषेयत्वस्य प्रसाधितत्वान्न सिद्धसाध्यता। अथापि स्याद्-अज्ञात्वा यदृच्छयाऽप्युपदेशसम्भवादनैकान्तिकतेत्याह-अज्ञातस्येत्यादि । न ह्यज्ञात्वा यदृच्छया प्रमाणाविरुद्धं नियमेन बहु शक्यं भाषितुम् ॥ ३४५०॥
मुद्रामण्डलमन्त्रादेर्यत् सामर्थ्यमतीन्द्रियम्। .... पिशाचडाकिनीमोक्षविषापनयनादिषु ॥३४५१॥ श्रुतानुमानभिन्नेन साक्षाज्ञानेन निर्मलम्।
मुनिताादिविज्ञानं न चेत् तद्गदितं कथम्॥३४५२॥ किञ्च-यदेतन्मन्त्रादीनां विषापनयनादिसामर्थ्यमत्यन्तपरोक्षम्, तद्यदि बुद्धादिभिः साक्षान्न विदितं तत् कथं तैर्भाषितमिति वक्तव्यम् ॥ ३४५१-३४५२ ।। अनुमानतो ज्ञात्वा भाषितमिति चेद् ? आह
न चानुमानतो ज्ञानं तस्य. पूर्वमदृष्टितः। .
तेन लिङ्गस्य सम्बन्धदर्शनानुपपत्तितः॥३४५३॥ न ह्यविदितलक्षणसम्बन्धं वस्त्वनुमानविषयः, न च तेनात्यन्तपरोक्षेण वस्तुना सह कस्यचिल्लिङ्गस्य सम्बन्धः शक्यते निश्चेतुम् ॥ ३४५३॥
श्रुत्वा न चान्यतः प्रोक्तं तुल्यपर्यनुयोगतः। न यदृच्छाविसंवादिरूपमीदृक् च भावितम् ॥३४५४॥ देशनैवम्परैवेयं नान्यहेतूपकल्पना। हेत्वन्तरकृतायां हि वृत्तौ तन्नाम शङ्कयते ॥३४५५॥ पिपासाकुलचित्तस्य वाहिनीमुपसर्पतः।
तथा विद्रुमसम्प्राप्तेर्युक्ता यादृच्छिकी स्थितिः॥३४५६॥ परतः श्रुत्वा प्रोक्तमिति चेत् ? न; तस्यापि तुल्यपर्यनुयोगात्। तथा हि-तथाप्ययं विचारोऽवतरति-तेनापि परेण कथं ज्ञातम् ? न ह्यज्ञात्वा तथोपदेशः सम्भवेत्-तेनाप्यन्यतो ज्ञातमिति चेत्? एवं तीनवस्था स्यात्, ततश्चान्धपरम्परायां सत्यां सर्वेषामनभिज्ञत्वान सम्यगुपदेशः स्यात् । यथोक्तम्-"नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धानामिव वचनं रूपविशेषेषु" (मी० द० शा० भा० १.१.२) इति । स्यादेतत्-अविसंवादित्वं [G.899) घुणाक्षरवद् यादृच्छिकमपि सम्भाव्यते? इत्याशङ्कयाह- न यदृच्छेत्यादि । यदृच्छया अविसंवादस्तदेव रूपं यस्येति विग्रहः। अन्यार्थसमीहया प्रवृत्तस्यार्थान्तरसंवादो यादृच्छिक: सम्भाव्यते । यथा नदीदेशोपसर्पणाभिप्रायेण प्रवृत्तस्य वृक्षमूलोपसर्पणम् । न चात्रान्यार्थाभि१. न हि-गा।
Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450